पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८२
काव्यमाला ।

तत्रासौ लाटललनाकराक्षोत्पलदामभिः ।
भूयमाण इवापश्यद्दयतशाला सकौतुकः ।। ८१७ ॥
खजानुसंधिविन्यस्तकपोलेनिश्चलेक्षणैः ।
पराजये हहाकारकराहतमहीतलैः ।। ८१८ ॥
अधिक्षेपपरासक्तैः शपथाकोपकम्पिभिः ।
वैकानेकाङ्गविन्यासपरैः कलकलाकुलैः ॥ ८१९ ।।
भुजङ्गैरिव सोच्छासैः पथिकैरिव धूसरैः ।
उन्मत्तरिव दिग्वस्त्रैर्वसनैरिव धिकृतैः ॥ ८२० ।।
कितवैहेंलया तत्र चूतकेलि बिधाय सः ।
जित्वा धनं ददौ तेभ्यः परदानेवशिक्षितः ॥ २१ ॥
न वयं याजकतया पात्रं ते द्रविणार्पणे ।
इत्युक्त्वा तत्सुहृद्भूत्वा वसुदत्तोऽत्रहीद्धनम् ।। ८२२ ।।
तेन संजातवित्रम्भस्तमपृच्छत्कथान्तरे ।
खैरं भीमभटो वृत्तं स च पृष्टोऽभ्यभाषत ।। ८२३ ॥
बभूवः शिवदत्ताख्यो द्विजन्मा हस्तिनापुरे ।
तस्याहं वसुदत्ताख्यम्तनयः प्राप्तदुर्नयः ।। ६२४ ॥
स.कदाचिन्मम पिता सदाकलहशीलया ।
गृहिण्या विहितोद्वेगो देशं देहमिवात्यजत् ।। ८२६ ॥
गते तस्सिन्मम बधू सा निष्कारणकोपना ।
तैस्तैः सपरुषालापैश्चकारात्यन्तदुःखिताम् ॥ ८२६ ॥
सहासोक्तिषु दौःशील्यं भौने दपै श्रमे सुखम् ।
वये मायां भये दम्भं सपर्यायां च वचनम् ।। ८२७ ॥
वक्ति खुषामविरतं दोषैकन्यस्तलोचना ।
तदुःखात्सायगात्वापि कः सदा सहते व्यथाम् ।। ८२८ ।।


कृस्य क. विक्रान्तैकान्त यस्तकलाकलकुलाकले.क. दुष्कृतः

गेई क- रुजम् क.