पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४

एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

ततस्त्वां यौवनारम्भविभ्रमोद्यानमञ्जरीम् ।
सपर्यायै तपस्थस्य दिदेश हिमवान्मम ॥ ३५ ॥
अत्रान्तरे तारकेण वन्दीकृतजयश्रियः।
शुश्रुवुस्त्रिदशास्त्राणं भाविनं त्वयि मे सुतम् ॥ ३६ ॥
तदर्थमथ शक्रेण प्रेषितो रतिवल्लभः ।
तपोवनं समजुषत्सभार्यो मधुना सह ॥ ३७ ॥
ततः कुसुमहासिन्यो विलोलालिकुलालकाः ।
क्वणद्विहङ्गवलया हारिण्यो क्बिभुर्लताः ॥ ३८ ॥
कान्ताकपोलसच्छाये प्रोढतां याति चम्पके ।
अशोके गाढरागे च कामिनामिव चेतसि ॥ ३९ ॥
नेत्रप्रभाकुवलयव्यासङ्गिकुसुमाञ्जलिम् ।
क्षिपन्तीं प्रणतां देवि त्वामपश्यमहं पुरः ॥ ४० ॥
ततोऽहं निशिताग्रस्य कर्णान्तपरिसर्पिणः ।
लक्ष्यतां त्वत्कटाक्षस्य यातः स्वरशरस्य च ॥ ४१ ॥
हर्षान्मे त्वन्मुखाम्भोजभृङ्गाली त्वयि सोत्सुका ।
दृष्टिः पपात लावण्यकल्लोलाकुलिताधरम् ॥ ४२ ॥
प्रणिधाय मनः पश्चादपश्यं कुसुमायुधम् ।
मौर्वीमधुकरारावतारक्रेङ्कारकार्मुकम् ।। ४३ ॥
तदकारि मम क्रोधादथ लोचनवह्निना ।
अङ्गनापाङ्गवसतिर्येनापाङ्गोऽभवत्स्मरः ।। ४४ ॥
मानसक्षोभपवने प्लुष्टे मकरकेतने ।
भयकम्पकृपाशोकव्याकुले तव चेतसि ।। ४५ ।।
दग्धोऽन्धकद्विषा रोषात्स्मरस्तत्रास्मि कारणम् ।
इति ध्यात्वा तपस्तीव्रं तप्तवत्यसि पार्वति ॥ ४६ ।।
मयि प्रसादसुभगां ज्ञात्वा ते निश्चितां मतिम् ।
यातः कृतार्थतां देवि तवायं प्रणयाज्जनः ।। ४७ ॥