पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७२
काव्यमाला ।


इन्दीवरप्रभा नाम तस्येन्दीवरलोचना ।
बभूव भार्यामर्यादा धातुावण्यकौशले ॥ ३५ ॥

स कदाचिन्मृगक्रीडारणकलिकुतूहली ।
विवेश विपिनं धन्वी विचित्रदृढसौष्ठवः ।। ३६ ॥

तत्रापश्यन्मन्त्रसिद्ध्यै बिल्वहोमपरायणम् ।
द्विजं ज्वलितसप्ताचिःपिङ्गीकृतदिगन्तरम् ॥ ३७ ॥

यदा काञ्चनतां याति श्रीफलं पावकान्तरे।
तदा मन्त्रस्य सिद्धस्य लक्षणं कथितं बुधैः ॥ ३८ ॥

जुह्वतस्तस्य रुचिरं न फलं पाप हेमताम् ।
ततो राजा समभ्येत्य ददर्शाहुतितत्परम् ॥ ३९ ॥

तं दृष्ट्वा ज्वलिते वह्नौ बिल्वमेकं स कौतुकात् ।
चिक्षेप तत्क्रुधा विप्रो भृकुटीभीषणोऽभवत् ॥ ४० ॥

अस्नातस्त्वमनाचम्य सर्वस्पर्शो विशृङ्खलः ।
वह्नौ जुहोषि पापात्मन्नित्याह स महीपतिम् ॥ ४१ ॥

तत्फलं भूभुजा क्षिप्तं द्विजेन फलमण्डलम् ।
हुतं राज्ञः काञ्चनतां यावन्नैव द्विजन्मनः ॥ ४२ ॥

तद्विलोक्याद्भुतं विप्रोः विस्मयस्थगिता गतिः ।
बभूव मन्त्रगणनाविच्छेदा विचलाधरः ॥ ४३ ॥

ततः स्वयं जातवेदाः समुत्थाय महीभुजे ।
ददौ फलं स्वहस्तेन तदपृच्छच्च सोऽग्रजः ॥ ४४ ॥

भगवन्नियमस्थस्य न मेऽद्यापि प्रसीदसि ।
विकीर्णाचारमनसः कथं तुष्टोऽसि भूपतः ॥ ४५ ॥

इत्युक्तः सोऽब्रवीद्वह्निः संकल्पस्याद्भवदृढः ।
शिरश्छित्वा जुहोमीति दर्शनेन विना मम ॥ ४६॥

त्वं. तु शुष्कक्रियातन्नः केवलं मन्त्रसाधकः ।
सिद्धिः सत्वषतामेव संकोचो ह्यतिसंयमः ॥ ४७ ॥