ततः कदाचिदाकाशे ताडितो व्याडिना रुषा।
तुण्डेन पक्षिणा नागः सोऽपतद्भृशविह्वलः ।। ११० ॥
न शशाक महाकायः समुत्थातुं महीतलात् ।
स जनैश्चात्यमानोऽपि व्यसनादिव नष्टधीः ॥ १११ ॥
ततः पञ्चलु यातेषु बासरेषु सुदुःखितः ।
नृपः शोचन्निराहारः शिरश्छेत्तुं समुद्ययौ ॥ ११२ ॥
तत्सत्वचकिताः प्राहुर्देवा गगनचारिणः ।
राजन्साध्वीकरस्पर्शादुत्तिष्ठति तब द्विपः ॥ ११३ ॥
इत्याकाशवचः श्रुत्वा हृष्टो रत्नाधिपो नृपः ।
आनिनायामृतलतां स[१]तां प्रथमवल्लभाम् ॥ ११४ ॥
[२]तत्पाणिना कृतस्पर्शों नोदत्तिष्ठत्स कुञ्जरः ।।
कुर्वन्मदमधीपकैरिव तां मलिनाननाम् ॥ ११५ ॥
ततः क्रमेण नृपतेः समस्तैस्तैर्वधूजनैः ।
स्पृश्यमानोऽपि वसुधा न तत्याज महागजः ।। ११६ ।।
यथा यथा प्रयान्ति स विमुखा राजयोषितः ।
तथा तथा लज्जयेव नुषः पातालमाविशत् ।। ११७ ॥
मन्त्रिपुत्रवधूवृन्दे तथैव विफले गते ।
आययौ हर्षगुप्ताख्यो वणिग्देशान्तरागतः ॥ ११८ ॥
तस्य शीलवती भार्या कटके [३]कर्मचारिणी।
मनोवाक्कायनिष्ठाभिः साध्वी पस्पर्श तं गजम् ॥ ११९ ॥
तया स्पृष्टः स सहसा समुत्तस्थौ गजाधिपः
सह लोकनिनादेन हिमवानिव जङ्गमः ॥ १२० ॥
ततः शीलवती राजा वणिजं चार्थसंचयैः ।
पूजयित्वा प्रियाः सर्वा मेने संकल्पदूषिताः ।। १२१ ॥
अथानुजां शीलवत्या राजदत्ताभिधां नृपः ।
परिणीय चकारास्सै मन्दिरं सागरान्तरा ॥ १२२ ॥
१."तां" परमवल्लभम् । २."तया कुतकरस्पर्शो" ख । ३. "सदर्मचा" ख.
ती कामवासभाम् खः २. तया कुतकरस्पों न, ३. सद्धर्मका' स.
।