इति प्रत्यक्षभग्गो च कथिते मरुभूतिना
कथा[१]नुगं हरिशिखो राजपुत्रमभाषत ।। २७० ॥
अभूद्वीरभुजो नाम वर्धमानपुरे नृपः ।
जायासतादभूत्तस्य प्रिया गुणवराभिधा ॥ २७१ ॥
स पुत्रार्थी भिषग्वाक्यात्स्वयमादाय लुब्धकैः ।
वनच्छागं महाकायं सूदेन विदधे रसम् ॥ २७२ ।।
औषधीचूर्णसंयुक्तं वैद्योऽपि श्रुतवर्थनः ।
सर्वाभ्यो राजकान्ताभ्यो ददौ गुणवरां विना ॥ १७३ ॥
सा हि सर्वाथिने पत्युर्व्यग्राभूत्पुत्रकाङ्क्षिणी ।
राजदारान्सुगुप्तांस्तु वैद्यो जानाति तां कथाम् ॥ २७४ ।।
ततो दुःखाकुलो राजा दयितां वीक्ष्य वञ्चिताम् ।
चुकोप कुपितं दृष्ट्वा तं च प्राह भिषग्वरः ॥ २७५ ॥
छागशृङ्गद्वयं शेषं क्वथितं सूपकारिणा ।
तन्द्रसेन सुतं देवीं चूर्णयोगादवाप्स्यति ।। २७६ ॥
इत्युक्त्वा शृङ्गपूषेण ददौ तस्यै सभेषजम् ।
तेन गर्भवती साभूहोहदा पाण्डुरच्छविः ।। २७७ ।।
अथ सर्वेषु जातेषु पुत्रेषु प्राप सा सुतम् ।
कान्तं शृङ्गभुजं नाम गुणविक्रमशालिनम् ॥ २७८ ।।
ततो गुणवरां दृष्टा सपुत्रामधिकाप्रियाम् ।
राज्ञः सर्ववधूवक्त्रं चिन्ताव्याकुलतां ययौ ।। २७९ ॥
संमङ्य नृपमाहुस्ताः पृथग्भावाः कृथान्तरे ।
सक्ता गुणवती राजन्नन्तःपुरपतेरिति ।। २८० ॥
सर्वासामेकवाक्येन गाढां शङ्काकुलो नृपः ।
तीर्थयात्रापदेशेन नि[२]रासान्तःपुराधिपम् ॥ २८१ ।।
सर्वतीर्थमयं पुण्यं याते काश्मीरमण्डलम् ।
तस्सिन्देवीमपि क्रोधाद्भूगृहान्तन्यवेशयत् ॥ २८२ ॥
१."मन्यो" ख । २. "रस्यान्तः". ख ॥
* मन्यो' ख.२. रस्यान्तव,