अलक्षितं गतं ज्ञात्वा स[१] सभार्यं निशाचरः ।
प्रक्षोभितनभोवातः पश्चात्कोपाकुलो ययौ ॥ ३०८ ॥
ततः प्रभाते तां पित्रा परिणीय समर्पिताम् ।
तमागतमतिक्रुद्धं दृष्ट्वा रूपशिखावदत् ॥ ३०९ ॥
अस्मानग्निशिखः कोपादयमायाति भीषणः ।
प्रेषितः पुष्करावर्तैः क्षतदूत इवावनिम् ॥ ३१० ॥
तदेषा वञ्चयाम्येनं मायया मन्दचेतसम् ।
पापकर्ममहा[२]म्भोधिनिमग्नमिव संस्सृ[३]तिः ॥ ३११ ॥
इत्युक्त्वा विद्यया सामूत्सहसा काष्टहा[४]रिकः ।
जवाद्राक्षसमायान्तं पृच्छन्तं साभ्यभाषत ।। ३१२ ॥
पञ्चतां राक्षसेन्द्रोऽद्य दैवादग्निशिखों गतः ।
तदर्थमिदुमानीतं काष्टं यत्नेन काननात् ॥ ३१३ ॥
इति तद्वचनं श्रुत्वा मौर्ख्यादग्निशिखस्ततः ।
अमन्यत मृतोऽसीति स्वभावजडमानसः ॥ ३१४ ॥
ततो निजगृहं गत्वा स पप्रच्छ स्वयोषितः ।
अपि सत्यं मृतोऽस्मीति श्रुत्वा नेत्यूचिरे च ताः ॥ ३१५ ॥
ततः पुनः समभ्यायाद्धन्तुं जामातरं जवात् ।
तं दृष्ट्वा लेखहारोऽभूत्क्षिप्रं रूपशिखा पुनः ॥ ३१६ ॥
अपि दृष्टौ त्वया मार्गे दम्पती तुरगस्थधितौ ।
इति पृच्छन्तमवदत्तमसौ लेखहारकः ॥ ३१७ ॥
दर्पादनिशिखो युद्धे जीवशेषः कृतोऽरिभिः ।
वार्ता तद्भ्रातुरानीता मया लेखेन सत्वरम् ॥ ३१८ ॥
इति श्रुत्वा मूढ्मतिः स गत्वा स्वगृहं पुनः ।
पप्रच्छ हासविवशाः स्वस्य़ा वृत्तान्तमङ्गनाः ॥ ३१९ ॥
इत्यसौ वञ्चितः युश्या मूर्ख सुप्त इव द्विपः ।
हास्वोपमानता प्रातः प्रज्ञासु निरवग्रहः ॥ ३२० ॥
१."त" ख । २."द्" । ३. "स्मृति" । ४."भा" खा ॥
दा की ३. स्मृति- स. . भा ख.