मरुभूतिमथ क्षीनं विलोक्य स्खलिताक्षरम् ।
गोमुखः प्राह राजेन्द्र गृहे किं [१]न स संयतः ।। ३३३ ।।
संक्रुद्धश्चासि मद्वाक्ये नीतिबाह्य इवेक्षसे ।
अथ वा दुर्घहरताननुनेतुं क ईश्वरः ॥ ३३४ ॥
प्रतिष्ठानपुरे पूर्वं तपोदत्ताभिधो द्विजः ।
गङ्गाकूले तपस्तेपे विद्यार्थी शंसितव्रतः ।। ३३५ ॥
तस्य घोरेण तपसा सहसाक्षो विषण्णधीः ।
विप्ररूपः समभ्यायात्तदाश्रमनदीतटम् ॥ ३३६ ॥
तत्र दोर्भ्यां समादाय सिकताः स मुहुर्मुहुः ।
बबन्ध सेतुं सावेगप्रवाहे[२] बहिरन्तरे ॥ ३३७ ।।
तं दृष्ट्वा स तयस्थोऽपि विस्मितः स्मितशुभ्रया ।
गिरा तमाह किमयं मिथ्या तव परिश्रमः ॥ ३३८॥
सैकतः सेतुबन्धोऽयं तव हासाय निष्फलम् ।
औदार्यं निर्धनस्येव मूर्खस्येव नयक्रमः ॥ ३३९ ॥
इति तस्य वचः श्रुत्वा स तं प्राह द्विजाकृतिः ।
अहो परोपदेशेषु विद्वान्सर्वात्मना जनः ॥ ३४० ॥
विसयस्ते द्विजश्रेष्ठ निष्फले मम कर्मणि ।
कथमश्रुतपाण्डित्यमब्रुवस्त्वं समीहसे ॥ ३४१ ॥
इयं शशविषाणेच्छा व्योम्नि वा चित्रकल्पना ।
अनक्षरोऽपि विन्यासो यद्विद्याध्ययनं विना ॥ ३४२ ॥
निशम्यैतत्तपोदत्तः साधूक्तमिति चेतसा ।
निश्चित्य दुर्ग्रहात्तस्माद्विरराम महातपाः ॥ ३४३ ॥
इत्येवमुपदेशेन निवर्तन्ते विपर्ययात् ।
साधवो न तु मूर्खोऽयं मरुभूतिः शृणोतु मे ॥ ३४४ ॥
इति नर्मोपहासाय गोमुखेनोपव[३]र्णिते
हसन्हरिशिखः प्राह मरुभूर्ति व्यलोकयन् ॥ ३४५ ॥
१.’त्वसमं य " ख । २." इसरिदन्दरे" ख । ३. "चेतसे" ख॥
"स्वसभा या खरे, 'हरिदन्तरे ख. ३. चेतसे स्व.