पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीपार्श्वनाथस्तवः । एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम् ॥ ९ ॥ यौष्माकीणगुणस्तुतिं विकिरती शुण्डामिवान्तर्गत- प्रीतिं स्फीतिमतीमतीव सुरभि दानाम्बुना बिभ्रती । त्रैलोक्यैकसुरद्रुम द्रुमवनानीवोन्मदा वासिता युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता ॥ १०॥ आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिरं सोऽयं ज्ञानपथस्तथापि किमपि खार्थेकनिष्ठो ब्रुवे । अश्रान्तं मम चञ्चलेऽपि मनसि खामिन्नधान स्थिति त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि ॥ ११ ॥ विश्वेश प्रसभं त्वदीययशसा व्यालुप्यमाने प्रभा- सर्वस्वे जगदाक्रमैकपटुना नूनं द्विजानां पतिः । शस्त्रीं लान्छनकैतवात्मतिनिशं कुक्षिप्रदेशे क्षिप- न्कोपाटोपवशादसावुदयते विश्रद्वपुलॊहितम् ॥ १२ ॥ चक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं व्याकोशस्य कुशेशयस्य सुषमासर्वखमप्यमहीः । यत्तुल्यव्यसनादपि स्म जहितो नैतौ विरोधं मिथ- तेनाकारि समानशीलविपदां सख्यप्रवादो मृषा ॥ १३ ॥ पुष्टाङ्गं व्यवहारनिश्चयनयोत्तुङ्गशृङ्ग शुभं दानाद्यङ्गिचतुष्टयं च विकसज्ज्ञानक्रियालोचनम् । नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युलस- त्पीनोचैःककुदं कुतीर्थतृणमुक्सूते वृषं गौस्तव ॥ १४ ॥ आकण्ठं कमठाम्बुदोज्झितपयःपूरे निममाङ्गक- स्योत्फुल्लं मुखपङ्कजं तव पपौ या कौतुकोत्कर्षतः । नागस्त्रैणविलोचनालिपटली संख्याय घुर्येव तां (1) धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति ॥ १५ ॥ १. करिणी. १० का.स.गु.