११० काव्यमाला। वन्दारोः प्रियकोपितप्रणयिनीदृक्कोणशोणत्विषः सान्द्रस्निग्धसमुच्छलत्क्रमनखश्रेणीमयूखास्तव । त्वद्वृत्तस्तुतितिकाभिमुखितां पाणौ चिकीर्षोः शिव- श्रीरामां नवपद्मरागमहितं बध्नन्तु मौलौ मम ॥ १६ ॥ एवं नृदेवमहितः सहितः प्रभाव- भूत्या प्रभूततमया विनुतो मयायम् । पार्श्वप्रभुर्विमलचिन्मयचित्तसौध- मुत्तंसयत्त्ववृजिनप्रभसूरिवर्यः ॥ १७ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः ।
श्रीजिनप्रभसूरिविरचितं
गौतमस्तोत्रम् ।
श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया
तत्रोत्पन्नमसन्नचित्तमनिशं श्रीवीरसेवाविधौ ।
ज्योतिःसंश्रयगौतमान्वयविपत्प्रद्योतनद्योमणिं
तापोत्तीर्णसुवर्णवर्णवपुष भक्त्येन्द्रभूति स्तुवे ॥१॥
के नाम नामङ्गुरभाग्यसृश्य दृष्ट्यै सुराणां स्पृहयन्ति सन्तः ।
निमेषविघ्नोज्झितमाननेन्दुज्योल्लां मनोहत्य तवापिबद्या ॥२॥
निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः ।
इत्थं न चेत्तर्हि कुतत्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ ३ ॥
पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् ।
सुधाह्रदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ ४॥
सौभाग्यभङ्ग्यापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः ।
यत्त्वां समया अपि लब्धिकान्ताः समालिलिङ्गः समकालमेव ।। ५ ॥
त्वत्पादपीठे विलुठन्त्यमास्त्वद्नेहभृत्याः किल कल्पवृक्षाः ।
तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु ।। ६ ॥