पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः । निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम् । वितर जातजगत्रय शंभव कान्तारतारतारममारम् ॥ ९॥ हे निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोऽरममाणोऽक्रीडन्मारः कामो यत्र ॥ आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः । स्तुत रहित जिनकदम्बक विभयापरमार मारमानमदमरैः ॥ १०॥ हे जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तक प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत बन्दित । हे विगत- भय । हे न परान्मारयतीत्यपरमार सर्वजन्तुरक्षक । है रहित त्यक्त । कैः काममान- मदमरणैः ॥ जिनराज्या रचितं स्तादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ ११ ॥ जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुफलात्कृतं मतं शासनं नोऽस्माकं शिव- सुखाय सातू भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्त्रया नः इत्यत्र 'रोर्यः' इति रस्य यः। 'खरे वा' इति विकल्पवात्तस्यान न लुक् । आयतो बिपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया । मतं किंभूतम् । यतमानं प्रयत्न कुर्वाणम् ॥ शृङ्खलभृत्कनकनिभा यातामसमानमानमानक्महिताम् । श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ।। या देवी शखलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्ख लां वज्रशृङ्खलाभिधानामानम् । किंभूताम् । असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा असदृशौ अनमानी प्राणाइंकारौ येषां ते असमानमानाः । ते च मानवाश्च तैमेहिता पूजिता ताम् । कजयात पङ्कजगताम् । असमानं निरहंकार यथा स्यात् एवमानम नमस्कुरु । अवमं पापं तन विद्यते थेषों तेऽनवमातेभ्यो हिताम् ।। त्वमशुमान्यमिनन्दन नन्दितासुरवधूनयनः परमोदरः । सरकरीन्द्रविदारणकेसरिन्सुरव धूनय नः परमोऽदरः ॥ १३ ॥ हे अभिनन्दन जिन, त्वमशुमान्यशिवाग्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय सम्पय विनाशय । किंभूतः । नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदमेदादसुशब्देनासुमन्त एवोच्यन्ते । तथा न वधूषु नयने यस्य स तथा । यद्वा