पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सप्तमगुच्छकः। श्रीमानतुजाचार्यविरचितं भक्तामरस्तोत्रम् । भक्तामरप्रणतमौलिमणिप्रभाणा- मुद्द्योतकं दलितपापतमोवितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादा- वालम्बनं भवजले पततां जनानाम् ॥ १ ॥ १. भक्तामरस्तोत्रप्रणेता मानतुङ्गाचार्यो मालवदेशान्तर्गतोज्जयिनीनगर्वां वृद्धभोज- महीपतिसमये बाणमयूरयोः समकालिक आसीदिति भकामरस्तोत्रटीकानामुपोद्धाते समुपलभ्यते. तेन ख्रिस्ताब्दीयसप्तमशतकपूर्वभागो बाणभट्टसमय एष मानतुङ्गसमय इत्य- वसीयते. मेरुतुङ्गप्रणीतबन्धचिन्तामणौ तु अथ यदा मालमण्डले श्रीभोजराजो राज्यं चकार तदात्र गुर्जरधरित्र्यां चौलुक्यचक्रवर्ती श्रीभीमः पृथिवीं शशास' इत्यस्ति. तदन- न्तरं भोजसमायां बाणमयूराभ्यां सह मानतुङ्गाचार्यस्य विवादादि भक्तामरस्तोत्रनिर्माणं च वर्णितमस्ति. भीमभोजराजौ तु ख्रिस्ताब्दीयैकादशशतक आस्तामिति गुजराथदेशीयेति- हासे स्फुटमेव. स एव मानतुङ्गस्य काल इलपि वक्तुं शक्यते, एवं किंवदन्तीनां परस्पर- विसंवादे संदिग्ध एव मानतुङ्गसमयः. एतादृश्यो जनश्रुतयस्तु समयादिनिर्णये नातीवोप- युक्ता इत्यसकृदुक्तमेव. स्तोत्रं चैतदिगम्बरै: श्वेताम्बरैश्च श्रद्धया पठ्यते. किं तु दिगम्बरा अष्टचत्वारिंशत्पद्यघटितं श्वेताम्बराश्चतुश्चत्वारिंशत्पद्यात्मकं च पठन्ति. तत्रैकत्रिंशत्पद्यान- न्तरं 'गम्भीरताररव--' इत्यादि पद्यचतुष्टयं दिगम्बरैरधिकमुद्धोष्यते. अस्माकं तु चतु- श्चत्वारिंशत्पद्यात्मकमेव स्तोत्रमाचार्येण प्रणीतमित्येव भाति यतो भक्तामरस्तोत्रानुक- रणप्रवृत्तः सिद्धसेनदिवाकरोऽपि कल्याणमन्दिरस्तोत्रं चतुश्चवारिंशच्छ्लोकैरेव निर्मित- वान्. अथ च भक्तामरसमस्यापूर्तिस्तोत्रमपि चतुश्चवारिंशत्पद्यात्मकमेव दृश्यते. गम्भीरे- त्यादि चत्वारि पद्यानि तु केनचन पण्डितंमन्येन निर्माय मणिमालायां काचशकला- नीव मानतुङ्गकवितायां प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कविवमर्मविद्भिर्विद्वद्भि- र्बोद्धुं शक्यते. टीकाश्चास्य स्तवस्य श्वेताम्बरैदिगम्बरैश्च निर्मिता भूयस्थो वर्तन्ते. तत्र दिगम्बरा मानतुङ्गाचार्यं दिगम्बरं श्वेताम्बराश्च श्वेताम्बरं वदन्ति. उपोद्घातस्तु टीकासु प्रायः समान एव वर्तते. कैश्चन टीकाकारैः प्रतिश्लोकं मन्त्रस्तत्प्रभावकथा च लिखि- तास्ति. तेच मन्त्रास्तसत्पद्येभ्यः कथं निर्गता इति त एव जानन्ति. मन्त्रशास्त्ररीत्या तु १ का० स०गु०