पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०२

पुटमेतत् सुपुष्टितम्
९४
काव्यमाला ।

नेवाद्य कान्तिविलयो वपुषीश्वरस्य
संकोचनं न तव नेत्रयुगे प्रसङ्गि ।
अभ्यासमद्य सखि पश्यसि रोषरूक्षं
पश्यन्तु ता अपि वृषध्वजमादरेण ॥ ११ ॥
ईर्ष्याकठोरमसकृत्त्वमवेक्षसे कि-
मन्योऽपि तं कमपि पश्यतु भीरुवर्गः ।
मोहेन शंकरविलोकनसंभवेन
श्वासं न किंचिदपि मुञ्चसि तारकाक्षि ॥ १२ ॥
भृङ्गास्तदीयवरसौरभलाभलोला-
द्यत्नेन(यत्ते न)संप्रति तवाननमाश्रयन्ते ।
मा1 मे खलेति मम वा वनमाकलय्य
बद्धा तदा क्व गलिता मणिमेखला ते ॥ १३ ॥
.2...........
.....
............
....
......."
1
यो मूढधीः स्वयमयं पुनराप्तवाक्यं
न श्रद्दधीत यदि तस्य विपत्तिरेव ॥ १४ ॥
काञ्चीगुणः पततु काममसौ नितम्बा-
देतानि रत्नवलयानि च बाहुयुग्मात् ।
एतत्तु मे व्यसनमालि सहैव तैस्तै-
र्लज्जामयस्य सहजाभरणस्य पातः ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्योक्तिपतिस्त्रयोदशी।

चतुर्दशी पद्धतिः ।

श्लाध्येन भैक्षचरणेन चिरं विहृत्य
रथ्यासु कालदमने गमनप्रवृत्ते ।
जातानि तस्य पुर एव नितम्बिनीनां
विश्लेषभीतिकलुषानि(णि) विचेष्टितानि ।। १ ॥