पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०३

पुटमेतत् सुपुष्टितम्
१४ पद्धतिः]
९५
भिक्षाटनकाव्यम् ।

गन्तुं प्रवृत्तमवलोक्य वृषाङ्कमेका
बालाम्बु नेत्रयुगुले प्रचुरं बभार ।
तस्यास्तदीयनयनानि पुनर्विदाहा-
त्रस्यन्निव क्षणमलक्ष्यत पञ्चबाणः ॥२॥
साकृतमैक्षत हरं मुहुरेव काचि-
द्विश्लेषवन्दननिमीलनपादपद्मा ।
संज्ञां सरोरुहनिमीलनयोग्यकाले
भूयः समागममवेक्ष्य वितन्वतीव ॥ ३ ॥
मन्दस्मितैरकलितोत्तरमीशमन्या
देहीन्द्रनीलमिति कण्ठगरं ययाचे ।
आगामितं झटिति तीव्रवियोगतापं
तेनैव कर्तुमभिवाञ्छय किलाढ(ढ्य) बुद्धिः ॥ ४ ॥
1काचित्पतिं गतिविषक्तमवेक्ष्य चिह्नैः
का मां तथास्त्वथ च कापि ममास्ति मीति ।
एते गमे हृदयगेहमहं प्रविष्टो
मां निर्गमेदिति विलोचनमामिमील्य ॥ ५ ॥
मा गा इति व्यवसिता वदितुं कयापि
सद्यो निरोद्धुमपि दत्तभुजार्गलेन ।
नानुष्ठितं गमनकाङक्षिणि भूतनाथे
ह्रीयन्त्रिणा(ता) भवति. नैव मनःप्रवृत्तेः(त्तिः) ॥ ६ ॥
2हस्तं मम त्वगलितं वलयं न जाने
भिक्षाकपालमिह नायक दर्शयेति ।
काचिच्चकार हरयानमुहूर्तविघ्नं
भिक्षुः शिवोऽपि परिभूतिपदं जगाम ।। ७ ।।
वीथीविमोचनगतिव्यवसायमेका
दृष्ट्वा हरं विरहतश्चकिता चकार ।