पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११०

पुटमेतत् सुपुष्टितम्
१०२
काव्यमाला ।


सप्तदशी पद्धतिः ।

सर्वेश्वरोऽपि निजशासनहानिदोषा-
द्ग्रामेषु भैक्षचरणादिषु यः प्रयत्नः(त्तः) ।
आधातुमस्य विनयं गिरिशस्य चक्रुः
शिक्षावचांसि दृढभक्तिवशेन नार्यः॥ १ ॥
एतद्विभो जहि कराग्रकरोटिपात्र-
मेवंविधात्मवधपातकसूचकं ते
कर्मायशस्यमवशापतितं स्वकीयं
नाश्लाघयत्यनुगृहं जगति त्वदा(द)न्यः ॥ २ ॥
दाता जनोऽस्तु भवने भवतोऽप्यनेकः
कामं तथापि न फलाय तवार्थितोऽयम् ।
रत्नाकरोऽपि विधिना यदि नाम शुष्ये-
त्कस्तस्य पूरणविधानपरः पयोदः ॥ ३ ॥
भिक्षाटनं तव न यद्यपि वर्जनीयं
देहीति मा वद कदापि शशाङ्कमौले ।
अभ्यर्थिनामवनताननदुद्रुयैव(?)
दाता ददाति नहि...... गिरापि लुब्धः ॥ ४ ॥
आमो(त्मो)परोधविरसा करुणा न जातु
भूयादितः प्रभृति ते कृपणामरेषु ।
चक्रे निसर्गविमलस्य त एव कण्ठे
कार्ष्ण्यं वृषध्वज यदीयविपाकदोषः ॥ ५ ॥
गीर्वाणलोकसरिता सह नित्यमेना-
मह्यावलिं शिरसि मा बिभृयाः पुरारे ।
त्वर्य(य्य)क्रमाकलितविश्वपदार्थवर्गे
मा भूत्कदापि न विशेषविदित्यवद्यम् ॥ ६ ॥
भीमं भुजङ्गमपहाय पिनाकपाणे
कण्ठे कुरु प्रकृतिशीतलमेव हारम् ।