पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११३

पुटमेतत् सुपुष्टितम्
१८ पद्धतिः]
१०५
भिक्षाटनकाव्यम् ।

काचित्पुरारिपदलाञ्छनभूषिताया
वीथ्याविमोक्षविमुखी पुरतः सखीनाम् ।
भूमौ विकीर्य मुषतो(?) निजहारमुक्तां
तासां क(क्र)मग्रहणसंभ्रममाचकार ॥ ४ ॥
आदाय शंभुपदमुक्तिमदादरेण(?)
रथ्यापरागमपरा निदधे कचाग्रे ।
कन्दर्पमुक्तशितबाणनवव्रणानां
निर्वापणार्थमिव सिद्धरसस्य चूर्णम् ॥ ५ ॥
मार्गे शिवस्य पतितं कृतमालपुष्प-
मादाय कापि बहु संकटमाससाद ।
यत्पुष्पमात्रधृतिभूषितमुत्तमाङ्गा-
नैवाङ्गमस्ति च यदन्यत(द)तो वरिष्ठम् ॥ ६ ॥
शंभोः कपर्दगलितं कृतमालपुष्पं
लब्ध्वा सखीं प्रमुदितामवलोक्य काचित् ।
वीथ्यागतप्रणयिना स्वयमप्यवाप्तुं
चूडानदीमलभतैव दृशोः क्षणेन ॥ ७ ॥
वीथ्या ययाप ललितां कृतपुष्पमालां
शंभोः कपर्दगलितामपरा वहन्ती ।
तां वीथिकां न विजहौ शशिखण्डलोभा
लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥ ८ ॥
वीथ्यां शिवस्य चरणाम्बुजदत्तमुद्रां
काचिद्विलोकयितुमाननमानमय्य ।
धारात्मना निपतदश्रुजलात्तदानीं
ज्याबन्धनी मदनकार्मुकयष्टिरासीत् ॥ ९ ॥
अवस्थितं सुचिरमत्र बलिर्गृहीता
साकूतमत्र गिरिशेन विलोकिताहम् ।