पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११६

पुटमेतत् सुपुष्टितम्
१०८
काव्यमाला ।

दाह्यो न किं व्यतिकरं शिवया शिवस्य
मूढः स्वकृत्यमिति दर्शयितुं प्रवृत्तः ॥ ७ ॥
शैलात्मजासहचरोऽपि हरः किमर्थं
मन्दाकिनीं शिरसि सादरमेव धत्ते ।
इत्थं न चेत्कथमयं बहुशो भवान्याः
पादप्रहारफलदं कलहं लभेत ॥८॥
देहीति दीनपदमाहितपात्रपाणिः
केनार्थिवेषमयमायने(द्रियते) वृषाङ्कः ।
सर्वो यथा विभवमाद्रियते जनोऽन्यः
कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ ९ ॥
भिक्षैव वृत्तिरजिनं वसनं यदस्य
वाहो बृपस्तदयमिच्छति किं महेशः ।
सर्वो यथा विभवमाद्रियते जनोऽन्यः
कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ १० ॥
निद्रानिमीलितविलोचनमूल्यमेष
शंभुः स्वदर्शनमदाद्गरुडध्वजाय ।
कालान्त एव विभवः कुटिलस्वभावै-
र्वृत्त्यैः प्रसाधितधियो महते फलाय ॥ ११ ॥
कैलासचालनकृतांहस एव कस्मा-
दीशः कृपाणमदिशदशकन्धराय ।
संत्रासिताद्रितनयादृढकण्ठपांश-
लाभेन तुष्टहृदयः स न किं ददाति ॥ १२ ॥
आराध्य दुग्धजलधिः सुधयैव देवा-
न्देवाय हन्त महते गरलं विदेश ।
एवं ध्रुवं प्रकृतिरेव कुलाशयानां
नीचेषु संमतिरसंमतिरुत्तमेषु ।। १३ ।।