पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११८

पुटमेतत् सुपुष्टितम्
११०
काव्यमाला ।

प्राक्संगमे पुरजिता मदशोणरूपं
शोकेन पाण्डुरमतो नु गृहप्रवेशम् ।
कस्याश्चिदाननमभूदुदयाद्रिमेत्य
भूयः क्रमाद्विजहता शशिना समानम् ॥ ४ ॥
आश्रित्य यं भवनतोरणदीर्घदस्म (?)
पूर्वं पुरारिमवलोकयति स्म काचित् ।
तन्मोक्तुमेव न शशाक गृहप्रवेशे
प्राप्ते तदा कलितमूर्तिरिव स्मरास्त्रैः ॥ ५ ॥
नीतां कथंचन गृहं प्रियबन्धुवर्गो
भूयोऽपि निर्जिगमिषुं सहसा रुरोध ।
(?)स्निह्यन्ति कारणमपूर्वकपालिनीति
कस्यां कथा झटिति हन्त बहिर्गतैव ॥ ६ ॥
आपाण्डुगण्डयुगला गलदश्रुनेत्रा
स्वस्थानविच्युतकटीगुणवन्धपादा ।
आलीजनेन परितः परिरक्ष्यमाणा
बन्दीव कापि शनकैर्वसतिं विवेश ॥ ७ ॥
पूर्वं गृहात्प्रचलिता हरदर्शनाय
वामाङ्घ्रियावकरसैररुणीचकार ।
बाष्पैर्मपीमलिनितैर्विनिवर्तमाना
तामेव कापि पदवीं मलिनीचकार ॥ ८ ॥
काचित्कथंचन सखीजनसान्त्ववादै-
र्द्वारं गतापि हरमार्गविलोकनेच्छुः ।
वाणी मनस्विन इवार्थनदैन्यकाले
नान्तर्गता च वनिता न बहिर्गता च ॥ ९ ॥
या पूर्वमुन्नतपयोधरगौरवेण
क्लान्ताप्यवाप हरमीक्षितुमाशु रथ्याम् ।