पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२

पुटमेतत् सुपुष्टितम्
काव्यमाला ।

गौरीतातगिरीशमञ्जुलदरीकेलीधुरीणामरी-
वीणोरीकृतवैखरीमधुझरीपारीणरीतिक्रमम् ।
मारीचारिधनुः सरीसृपपुरीनारीजनैरीडितं
सारीकृत्य सरीसरीतु हृदि मे भूरीर्वचोमञ्जरीः ।। १९ ।।
चित्रस्वीयचरित्रचिन्तनसुधाकृष्टाय तुष्टूषवे
मह्यं स्निह्यतु दातुमुक्तिमवनीपुत्रीशमित्रं धनुः ।
श्लाघान्दोलितचन्द्रचूडमकुटीविभ्राम्यदभ्रापगा-
पाथःपातगृहीतगर्वगिरिजानेत्रान्तपात्रीकृताम् ॥ २० ॥
पापार्थस्मरणेन जातु जनितं पापं कृपापक्ष्मलो
गौरीकान्तशरासनान्तकधनुर्दूरीकरोतु [द्रुतम्] ।
नैवं चेत्कथमेष भीषणदवज्वालाकरालाटवी-
विक्राम्यद्भवचक्रनिग्रहविधौ प्रागल्भ्यमभ्येतु मे ॥ २१ ॥
शस्त्राचार्यभुजंगभूषणधनुर्भङ्गप्रसङ्गश्रव-
प्रादुर्भूतरुषः कराद्भृगुपतेर्यद्गृह्णति प्रेयसि ।
ईर्ष्यारोषकषायिता दरदलत्कह्लारगर्भश्रियो
जानक्या निहिता दृशो हृदि वयं तत्कार्मुकं कुर्महे ॥ २२ ॥
सङ्घीभूय कुतूहलेन गगने स्थित्वा मुहुः पश्यतां
संतानद्रुमपुष्पवृष्टय इव स्वर्गौकसां दृष्टयः ।
यत्र क्षत्रियकण्ठलाविपरशोर्वीरादुपात्तेऽपत-
न्कुर्यामुत्तरकोसलेन्द्रधनुषे तस्मै प्रणामाञ्जलिम् ॥ २३ ॥
हेलाकालमुहुर्गृहीतकमलाचेलान्तदृश्यस्तन-
श्रीखण्डद्रवमुद्रिताच्युतकरस्पर्शस्फुरत्सौरभम् ।
शश्वद्दुप्प्रतिलम्भसंभवमनःशर्मण्यधर्मे मम
प्रावण्यं प्रणुदेद्विदेहतनयाप्राणेशबाणासनम् ॥ २४ ।।
त्रासोद्भ्रान्तशकुन्तसंततिजवव्याधूतचूताटवी-
शाखाशेखरमञ्जरीपरिगलन्माध्वीनिषिक्ताध्वनि ।