पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२६

पुटमेतत् सुपुष्टितम्
११८
काव्यमाला ।

ये यौवनस्थितिजुषो जगतीह तेषा-
माचार्यकं वहति मन्मथ एव नान्यः ॥ ४ ॥
कंदर्पमुक्तविशिखप्रणि(ण, हि)ताशयस्य
यो दुर्विदग्धगुरुसंनिधिदेशवासः ।
त्रुट्यत्किरातशतरागणनो(?) मृगस्य
मन्ये क्षुधार्तमृगवैरिगुहाप्रवेशः ॥ ५ ॥
पथ्योपदेशसमयः स गतः सदूरो(सुदूरे)
यस्मिन्न सन्ति मदनज्वरसंनिपाताः ।
किं नैव वेत्सि जननि त्वमिमामवस्थां
यस्याः कथंचिदपि जीवितमेव रक्ष्यम् ॥ ६ ॥
शाम्येदपि स्वयमयं मदनारि(ग्नि)रीशे
नैराश्यतो जननि मा कुरु तं प्रदीप्तम् ।
एधांसि नीरसनिषेधवचांसि मन्ये
कामानलस्य गुरुभिर्बहुशः कृतानि ॥ ७ ॥
स्नेहो न ते मयि परं मम देह एव
मातः किमन्यदितम(र)त्र मम प्रमाणम् ।
ईशानुसारविनिवारणमाचरन्ती
यन्मे झटित्यसुरतेर्विदधात्यनुज्ञाम् ॥ ८ ॥
मातस्त्वदीयवचनैः शितशूलकल्पै-
र्नाहिं मृता किमिति मर्मसु ताडितापि ।
प्रायः प्रियेण विरहव्यसने वधूनां
प्राणप्रयाणमपि पुण्यफलं वदन्ति ॥ ९ ॥
छायां समाश्रयति काममहाद्रुमस्य
सर्वोऽपि संस्मृतिमरुस्थलचारुतप्ता ।
नन्दत्यथापि किमयं वचसो विपाके
मन्ये जरा जनयति स्मृतिमूलनाशम् ॥ १० ॥