पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२८

पुटमेतत् सुपुष्टितम्
१२०
काव्यमाला ।

तावेव बान्धवजनश्च चिकित्सकश्च
प्रच्छन्नशत्रुरपरो न सुहृन्न वैद्यः ॥ १७ ॥
एतन्नम(?) प्रथममम्ब मयि त्वदीये
प्रेम्णे पुनस्तदनुरूपविचेष्टितेभ्यः ।
यन्मां प्रतीत्थमुपदेशविधिस्तवायं
मा भूद्विजेतरि पुरामनुरागबन्धः ॥ १८ ॥
अद्यापि शैलसुतया वपुरैक्ययोग-
मङ्गीकरोति गिरिशः स्वयमादिवृद्धः ।
केषांचिदत्र तदयं जरतां जनानां
कामानवाप्य वर एव विरक्तिवादः ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गुरुवचनोपालम्भपद्धतिस्रयोविंशतिः ।

चतुर्विंशी पद्धतिः।

रथ्या विमुच्य कथमप्यनिवेशशेषै-
रालीजनैर्भवनमाशु निवेशितानाम् ।
वामभ्रूवां शशिकलाधरविप्रयोगे
देहाश्रयाणि चरितान्युपलालयाम ॥ १ ॥
कस्याश्चिदक्षियुगलाद्धरयोर्वियोगे
जातः प्रसाधनविधेर्विपरीतभावः ।
बाष्पैस्तयोः प्रथममाहितराग आसी-
दत्यश्वसन्मलिनितश्वसितोष्मणैव ॥ २ ॥
भस्मालिलेप कुचयोर्हरिचन्दनादि-
लेपं विहाय विरहे वनितां हरेण ।
1बाष्पोदकं तदपि हन्त पुनर्निरासे
शुध्यन्ययोर्निरसनेन जलस्य भेदः ॥ ३ ॥
2त्यक्तेऽपि रत्नवलयैः सखि केलिपद्मै-
र्हस्तादपातकथने मणिकंतुकेऽपि ।