पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३३

पुटमेतत् सुपुष्टितम्
२६ पद्धतिः]
१२५
भिक्षाटनकाव्यम्

षड्विंशी पद्धतिः ।

उद्यानमाशु विविशुर्हरविप्रयुक्ता
नार्यो निजातिपरिहारमतिभ्रमेण ।
पूर्वं निगूढपतनैश्च शरै............
स्तस्याथ दृश्यपतनैश्च सुसंस्कृतैव ॥ १ ॥
काचिन्निजोपवन एव वियोगरुग्णा
पुष्पाणि वीक्ष्य विकृपा निभृतं दुदूये(?) ।
हस्तो निजस्य निजचापलदर्शनः स
सव्यस्मरातुरजनैर्नतु पुष्पहासः ॥ २ ॥
आलोलकिंशुकतरोस्तरुणं प्रसून-
मापाटलं परिजहार भयेन काचित् ।
निर्भिन्नकामिहृदयक्षतजावसक्तं
नूनं स्मरास्त्रमिदमित्युपजातबुद्धिः ॥ ३ ॥
काचिद्वधूः शमय शंभुवियोगताप-
मित्यादरेण मलयद्रुममालिलिङ्ग ।
लेभे स सिद्धिमतुलां तरुणैरलभ्यां
नैषा स्मरार्तिशमनं फलमाप किंचित् ॥ ४ ॥
कन्दर्पबाणनिकषच्युतचूर्णकल्पं
सद्यः परागमवलोक्य दिशासु पौष्पम् ।
आसूचिताखिलवियोगिजनव्यपाय-
मुप्तातपांसु(१)मपरा गणयांचकार ॥५॥
काचिद्गता विरहिणी सहकारमूल-
माकर्ण्य शब्दमशनिस्वननिर्विशेषम् ।
सद्यः किमित्युपरि लोचनमर्पयन्ती
पापादवैक्षत भयंकरमन्यपुष्टम् ॥ ६ ॥
कण्ठे कयापि करपल्लवमर्पयन्त्या
भृङ्गस्वनव्यथितया गृहवाटिकायाम् ।