पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३४

पुटमेतत् सुपुष्टितम्
१२६
काव्यमाला ।

व्याख्यातमेव च सखीजनदीर्घमान-
कर्णावतंसनवपल्लवनैव(?) रम्यम् ॥ ७ ॥
दृष्ट्वा पलाशमुकुलान्कुटिलखभावा-
न्काचिद्भयादपससर्प सुदूरतोऽपि ।
मिथ्या प्रकाश्य कथने निजसौमनस्य
कौटिल्यमात्मनि भवन्परिवर्जनीयः ॥ ८॥
आलम्बितो विरहदुःखितया कयाचि-
दाम्रद्रुमस्य सहसा तरुणप्रवालम् ।
कृष्णच्छविर्यदभवन्ननु युक्तमस्य
प्रागेव पाणितलशोणिमतस्करस्य ॥ ९ ॥
यस्यैव चम्पकतरोम(र)पनीय(?) पूर्वं
मूले ददौ त(वि)मलशीतलवारिधाराम् ।
तस्येतराकुसुमितस्य विनिश्चिकाय
दातुं पुनर्विरहिणी निशितास्त्रधाराम् ॥ १० ॥
भृङ्गस्वनास्य(ढ्य) कुसुमे कुरवे पुरस्थे
गाढं निमील्य नयने विरहिण्ययत्नात् ।
कर्णद्वये तु निजसिद्धिविधानहीने
काचिन्ननन्द च निनिन्द च पद्मयोनिम् ॥ ११ ॥
काचित्पुरा प्रतिदिनं परिवृद्धिहेतो-
र्यस्यै दिदेश सलिलं नवमालिकायै ।
सा पुष्पितैव जलमश्रुमिषं वियोगे
तस्यै प्रदाय कथमप्यनृणा बभूव ॥ १२ ॥
पुष्पेषु संस्तुतिमतीं क्वणितालिमाला-
मालोक्य कापि महदेव भयं प्रपेदे ।
शंभोस्तृतीयनयनानि(न)लधूमनीला
सा मन्मथस्य धनुषो यत एव मौर्वी ॥ १३ ॥