पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३६

पुटमेतत् सुपुष्टितम्
१२८
काव्यमाला ।

अङ्गारकारकरगोचर एव पूर्वं
पश्चात्त्वमेवमरुणच्छविराशु भूयाः ॥ २० ॥
यस्याश्चिराय विदधे गृहयूथिकायाः
पुष्पोत्तमाय बहुदैवत (त)र्पणानि ।
तां पुष्पितेन परिगृह्य चकार काचि-
द्विश्लेषिणीयुवतिजातिसमानकक्ष्याम् ॥ २१ ॥
अप्याश्मनीपरिहृतेन मुखं समीक्षे
दृष्ट्वा वसन्तसमये लकुलं सपुष्पम् ।
काचिव्द्यथां विरहिणी महतीं प्रपेदे
सत्यं नहि प्रतिनिधिर्भवितव्यतायाः ॥ २२ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानचरितपद्धतिः षड्विंशतिः ।

सप्तविंशी पद्धतिः ।

उद्यान एव ननु पुष्पितशालवर्गे
विश्लेषितप्रमनसां मदिरेक्षणानाम् ।
तं तं विनेयमनुभूय विषादवेगा-
द्वाक्यानि वक्रगलितानि विजृम्भयामः ॥ १ ॥
यन्नाम ते जगति गूढमयातवृत्या(?)
जातं पुरा कुरबकद्रुम वाच्यमेव ।
भूयस्तदद्य भवता कृतमन्वितार्थं
वाचालमत्तमधुपावसथं(?) प्रदाय ॥ २ ॥
उद्यानभूषण तवेदमनुक्तरूपं
छायाप्रदानहृततप्तजनश्रमस्य ।
अस्मिञ्जने विरहपावकतापवृद्ध्द्या
शोकातुरेऽपि दयसि त्वमशोक एव ॥ ३ ॥
वाचालकोकिलतया मधुराणि पूर्व-
मापीडयेति विधुरं तव कूजितानि ।