पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३७

पुटमेतत् सुपुष्टितम्
२७ पद्धतिः]
१२९
भिक्षाटनकाव्यम्

धान्यं धिनोति वचनैः श्रवणानुकूलै-
रन्यं दुनोति परुषैः परपुष्टजातिः ॥ ४ ॥
किं किंशुक त्वमपि संप्रति पीनलज्जः
कर्त(र्तुं) व्यवस्यसि रुजं कुसुमैरगन्धैः ।
अभ्यर्थितोऽहमिति विक्लवमानसाना-
मस्त्येव दार्क्ष्य(क्ष्य)मसतां परि(र)पीडनेषु ॥ ५ ॥
1भृङ्गाङ्गने सखि तवापि ममापि तुल्या
श्रीकण्ठ कण्ठ रुचिरत्र हि कोप(ऽपि) भेदः ।
पुष्पेषुचेष्टितमतीव तवानुकूलं
सत्यं तदेव हि मम प्रतिकूलमासीत् ॥ ६ ॥
आपीयसीषु(?) रसमागलमुन्मिषत्सु
पुष्पेष्वमी तत इतश्चरकायितेषु ।
मन्ये कलध्वनिमिषेण मनोभवस्य
गायन्ति मत्तमधुपा विजयप्रशस्तिम् ॥ ७ ॥
पूर्वं मया चिरतरं सहकारबुद्ध्या
यः पोषितः प्रतिविधानमुखैः प्रयत्नैः ।
जातः स संप्रति जगत्रयनाशहेतु-
रा हन्त पुष्पसमये विष एव.... ॥ ८ ॥
नृत्तोद्यमोऽसि फणिसंगमनिर्भयोऽसि
बर्हिन्यदप्यसितबन्धुरकन्धु(न्ध)रोऽसि ।
तैस्तैर्गुणैरनुकरोषि पिनाकपाणिं
हन्तुं मो(?) किमधुना कथमक्षमोऽसि ॥ ९ ॥
अम्भोनिधौ निपतितो यदि सेतुहेतोः
शैलोऽपि दक्षिणसमीरणजन्मभूमिः ।
सीतैककान्तविरहेण क(व)रं कपीन्द्रैः
संरक्षिता युवतयः सकला भवेयुः ॥ १० ॥