पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४

पुटमेतत् सुपुष्टितम्
काव्यमाला ।

यन्मौर्व्यामिपुमोचनाय जलधावास्फालितायां प्रभो-
रङ्गुल्या चिरकालविस्मृतमहीकन्याकुचस्पर्शया ।
टङ्कारो निरुणद्धि कर्णविवराण्यन्यानि दिग्दन्तिनां
शुण्डादण्डमुखेन गाढपिहितात्तन्मे शरण्यं धनुः ।। ३२ ॥
वेलाशैलगुहाविहारिवनकर्यादानमोदाकुल-
क्रामद्भीमविलासकेसरिमुखव्याकर्षणैकक्षमम् ।
तारज्यारवमुद्वमद्रचयितुं भव्यं शरव्यं पयो-
राशिं मे शिवलम्भकं भवतु तद्देवस्य तावद्धनुः ॥ ३३ ॥
कालीयानकरालकण्ठनिनदन्यक्कारलीलासख-
ज्याकर्षस्तनितात्तगन्धचकितक्रन्दद्दिशादन्तिनि ।
गर्जन्निर्झरिणीशतर्जनदशानिर्यच्छरे धीरियं
सीताकान्तकरान्तकेलिसदने काण्डासने खेलति ॥ ३४ ॥
पारावारतटीकुटीरविटपिस्त्यायत्कुलायस्थित-
श्येनोड्डीनविधानकेलिरसिकज्याघोषणाघोरया ।
वारिप्रेरितसायकायतशिखाचक्रत्रुटन्नक्रया
भास्वद्वंशवतंसचापलतया नूनं मनो नन्दति ॥ ३५ ॥
वन्दे कार्मुकमीशकार्मुकभिदो वीरस्य यस्मिन्रुषा
कल्पान्तानलकल्पमब्धिहतये बाणाग्निमुन्मुञ्चति ।
कन्थादाहधिया करेण ममृशे चूडानदी शंभुना
पीठप्लोषविशङ्किना च विधिना स्पृष्टा पयः कुण्डिका ॥ ३६ ॥
ज्यामौखर्यविदार्यमाणनदराट्पर्यन्तगिर्यन्तरं
स्थैर्यौदार्यनिवार्यमेरुमदमत्यैश्चर्यकार्यर्थिनाम् ।
पर्यन्तार्णववार्यजीर्यदिषुचर्याश्चर्यधुर्ये नम-
स्कुर्यामर्यमवंशजार्यकरयोः पर्यायधार्ये धनुः ॥ ३७ ॥
ज्याविद्धेषुसमिद्धपावकशिखासंनद्धगाढोद्धत-
क्रीडद्वाडवपीडनाचटचटाकुर्वाणसर्वाण्डजात् ।