पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४६

पुटमेतत् सुपुष्टितम्
१३८
काव्यमाला ।

या तुङ्गसौधशबलीभिधिता(१)वियुक्ता
या तत्समीपगतमङ्गलदीपिका च ।
सख्यः प्रमादमभिशङ्कय तयोर्विनेतु-
र्जालप्रविष्टपवनं समतेव(?) रक्षाम् ॥ ८ ॥
काचित्सहायरचि(हितां निशि चक्रवाकीं
दृष्ट्वा सतीष्वपि सखीष्वनुरागिणीषु ।
तस्यै शनैरकथयन्निजकामपीडां
नूनं दशासदृशता प्रणयस्य हेतुः ॥ ९ ॥
भीमं तमस्तदपि कापि ननन्द तस्मा-
द्यस्मात्रिलोचनगलस्मृतिमाततान ।
काचिद्विलोक्य कमलानि निमीलितानि
विश्लेषिणी विकसितानि च कैरवाणि ॥ १० ॥
शोकः सतां परविपद्यसतां च हर्षो
धात्रे च(त्रैव) सृष्ट इति कापि विनिश्चिकाय ।
गौरीपतेरभिसृतिं सुदृशा कयापि
कर्तुं प्रसाधनमशङ्कितमाचरन्त्या ॥ ११ ॥
नाबन्धि रत्नरशना विपुले नितम्बे
वाचालता गुणवतामतिदूषणाय ।
संध्यानभश्चरमसीमनि कापि पांसुं
संसर्पिणी विरहिणी सहसा निरीक्ष्य ॥ १२ ॥
मेने जगत्रितयनिर्जयवैजयन्तीं
कामस्य रत्नपटिकां भवविह्वलैव ।
..............
..................... ॥ १३ ॥

इत्युत्प्रेक्षावाल्लभकृतौ भिक्षाटनकाव्ये प्रदोषचरितपद्धतिस्विंशतिः ।