पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४७

पुटमेतत् सुपुष्टितम्
१३१ पद्धतिः]
१३९
भिक्षाटनकाव्यम् ।

प्राप्तः प्रदोष इति वीक्ष्य निरर्गलेन
पुष्पायुधेन भृशपीडितमानसानाम् ।
वामभ्रूवां विरहतापविजृम्भितानि
वाक्यानि वक्तुमभिवाञ्छति चेतना मे ॥ १ ॥
'स्वयमेव भीतिं
विध्यन्ति मुग्धहरिणान्विजने पुलिन्दाः ।
आचार्यमुच्चरितगोपतिवंशगीतं
कामस्तु विध्यति वियोग(गि)जनं प्रपेदे(पद्य) ॥ २ ॥
तुभ्यं नमो भवतु वासरलोपसंध्ये
नान्तःश्लथामनुकरोषि जटां शिवस्य ।
आशास्महे वयममी तत एव हेतो-
र्मा भूत्कदापि शशिनः शकला........ ॥ ३ ॥
नेयं निशा हतनिशाचरयोषिदेषा
हन्तुं वियोगविधुरं जनमाजगाम ।
अस्या मुखे सपदि यः प्रथते प्रकामं
रागः स कोपजनितो न तु सांध्यरागः ॥ ४ ॥
संधुक्षयत्यविरतं हृदयं मदीय-
मन्तः प्रविश्य मदनाग्नि1रसौरमीरः (१) ।
अस्मिन्नमुष्य विषमास्त्रविमुक्तबाणै-
रापाद्यमानविवरे सुकरः प्रवेशः ॥ ५ ॥
..."पश्चिमे क्षणमदर्शि नभःप्रदेशे
रागः क्व यात इति संप्रति मे व(वि)शङ्का ।
सत्यं हरेण विरहे हरिणेक्षणानां
चित्तेषु पुष्पधनुषा कृतसंविभागः ॥ ६ ॥