पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५७

पुटमेतत् सुपुष्टितम्
३५ पद्धतिः]
१४९
भिक्षाटनकाव्यम् ।

तं व्यापिनं गगन एव विधाय लक्ष्यं
दौत्योचितानि वचनान्यभवन्सखीनाम् ॥ १॥
कालान्तकोऽयमिति विश्वजनप्रसिद्ध
सत्यां विधातुमिति चेद्गिरिजाभिलाषः ।
यो बाधते त्वयि दृढप्रणयां सखीं मे
कालं तमद्य झटिति क्षपय क्षपाख्यम् ॥२॥
सख्यां वसन्तसखबाणगणार्दितायां
तां किंचिदत्र करुणां तरुणेन्दुमौले ।
मा वा (१) न नः क्षितिरतो मरणं वरिष्ठं
जीवस्थितेस्त्वमनुरागनिमित्तमस्याः ॥ ३ ॥
किं विस्तरेण शृणु शंकर संग्रहोक्तिं
वक्तव्यवस्तुनि मया सति पृच्छयमाने ।
नैवाक्षरैः सपदि कण्ठगतैर्मृगाक्ष्याः
प्राणैरभाणि हरितव्यमशेषमेव ॥ ४ ॥
गौरीसखस्य तव मा भवतु प्रसक्ति(त्ति):
कल्याणकाममितरासु मृगेक्षणासु ।
कण्ठे चिरं रुचिमती गरनीलमूले
भूयात्सदैव करुणाधिकवल्लभाय ॥ ५ ॥
शंभो तदा त्वदवलोकनपुण्यकाले
यान्त्यामभून्निपतितः प्रथमाश्रुपूरः ।
शोकाश्रुणः परिभवेऽपि किमायताक्ष्या-
स्तस्यास्तयोर्नयनयोरनुरूपमेव ॥ ६ ॥
सर्वज्ञता निरुपयिच्छ (१)कृपापि सिद्धे-
रव्याहतत्वमिति नाथ गुणास्त्रयस्ते ।
तत्र त्रये नियतमन्यतरस्य लोप-
स्तस्या न चेदिह विधास्यति जीवरक्षाम् ॥ ७ ॥