पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६८

पुटमेतत् सुपुष्टितम्
१६०
काव्यमाला ।

स्वप्नोपभोगमवदन्प्रमदाः प्रमोद-
त्सद्यो हरस्य हि मताय सखीजनाय ॥ १ ॥
स्वप्नो हरेण रतिमद्य विधातुमीष-
सक्तस्त्वयारतकृपया प्रतिबोधिताहम् ।
सुप्तिं व्रजेयमधुनास्य समागमाय
भूयोऽपि नैव सखि मे प्रतिबोधिनी भूः ॥ २ ॥
आलिङ्गिताङ्गमभयं शशिभूषणेन
स्वप्ने मया तु न स यन्न गले गृहीतः ।
ब्रीडावशस्तिमितया सखि हन्त पापा-
न्नोऽज्ञासिषं किमिति सुप्तिविजृम्भितं तत् ॥ ३॥
स्वप्ने हरेण विहितेऽपि तथैव भागे
नासीत्क्षतं वपुषि मे सखि हा हतास्मि ।
यन्नैव कृष्टमधरं न रतिक्षतस्य
क्षत्रं तदेवमुभयं फलहीनमेतत् ॥ ४ ॥
यः प्रस्थितो गतघृणः सखि चन्द्रमौलिः
स्वप्नागतः प्रथममेव मयोपगूढः ।
वीथीगतो यदि भवेत्रपयाभिभूता
तस्याग्रतो नहि यथैव पुरा भवेयम् ॥ ५ ॥
सुस्वप्नदर्शनफलं भवति प्रबोधे
पश्चादिति स्म कथयन्ति तदन्यथापि ।
स्वप्ने शिवस्य निशि वीक्षणमालि जातं.
तस्योपगृहनविधिं तदसूत सद्यः ॥ ६ ॥
स्वप्ने हरेण परिभोगरसेप्सुना मे
वासो गृहीतमिदमेव तदा विबुद्धम् ।
सख्यावयोरुपरि यानि विचेष्टितानि
ज्ञाता परं विषमसायक एव तेषाम् ॥ ७ ॥