पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२५

पुटमेतत् सुपुष्टितम्
१७
रामचापस्तवः ।

पुष्यत्तक्षकभोगविभ्रमजुषां येषामभूत्कन्दुक-
क्रीडाकौतुकहेतुरद्रिरभवच्च(तुलश्च)न्द्रार्धचूडामणेः ।
मौर्व्यै दुर्विनमं दशाननभुजैस्तैरेव शैवं धनु-
र्भङ्क्तुर्धन्व विभोः शरण्यमुररीकुर्यामुपर्यायुषे ॥ १०३ ॥
कण्ठं रुन्धति भैषजेन महतामच्छिद्यमाने कफे
मार्गालाभपरिप्लवेन मरुतां संधौ तनोस्त्रुट्यति ।
तामुल्लिख्य दशां विषादविवशं चेतः सुखावाप्तये
' चापे दाशरथेर्विषण्णजगतां बन्धाविदं धावति ॥ १०४ ॥
यावत्पावकपुञ्जपिञ्जरदृशो हस्तव्युदस्तायुधा
रुन्धि च्छिन्धि जहीति भीतिदगिरो नृत्यन्ति मृत्योर्भटाः ।
तावद्धावतु चित्तमुत्तमगुणाकल्पे ममाल्पेतर-
क्षेमस्थेमकरे शरासनवरे रामस्य नाम स्वयम् ॥ १०५ ॥
यावद्भीषणवेषकालमहिषग्रीवासमालम्बिनी
घण्टा चण्डमुदञ्चयत्यनुपदं नादं जवादम्बरे ।
तावद्धावितदूतपातचकितव्यावृत्तकीनाशया
मौर्वीटंक्रियया भयं शमयतामौर्वीसुतेशं धनुः ॥ १०६ ॥
एषा दक्षिणतो दिगस्तु महतो यस्यां पथो नावधिः
पान्थास्तत्र चरन्तु येषु भयदा भ्राम्यन्ति याम्या भटाः ।
तेभ्यः पातकिनां व्यथा भवतु या शक्या न सोढुं नृणां
का भीतिर्मम यस्य शर्मणि धनुर्जागर्ति सीतापतेः ॥ १०७ ॥
यत्तेजस्यति कीर्तिकाम्यति युधि प्रह्वान्कुमारीयति
प्रासादीयति देवहस्तकमले भासेन्द्रचापायते ।
रत्नैः पर्वसु लोहितायति भृतैः शब्दायते च ज्यया
तन्नः पातु नमस्यतो रघुपतेश्चित्रीयमाणं धनुः ॥ १०८ ॥
कल्पत्यर्थिनि कालिकाति रसिते कालाग्नियत्योजसि
स्थैर्ये मेरवति श्रिते पितरति श्रीराघवे यायति ।