पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२६

पुटमेतत् सुपुष्टितम्
१८
काव्यमाला ।

यच्चाप्यर्यमणत्यबोधतमसि द्वीपीनति द्विण्मृगे
चापेऽस्मिंस्तपनीयपट्टघटिते कुर्मो नमः कर्मताम् ॥ १०९ ॥
योऽपास्यन्नपि मार्गण [निभिमतं] दत्ते जनायार्थिने
स्वीकुर्वन्नपि वक्रिमाणमधिकं यः सद्गुणालंकृतः ।
यः श्रीमानपि शश्वदीश्वरकरालम्बेन मध्येकृश-
स्तं चापं चलचामराञ्चितशिखं स्तुध्वं खरध्वंसिनः ॥ ११० ॥
पुत्रेणेव शिलीमुखेन ऋजुना सज्जाययेव ज्यया
रज्ज्यन्त्या सुभटैरुपात्तरुचिभिः सौवर्णपट्टैरपि ।
आराध्यस्य रघुप्रवीरधनुषस्त्रैलोक्यरक्षामणेः
प्राचीनेन फलोन्मुखेन तपसा दासा वसामो वयम् ॥ १११ ॥

इति श्रीरामभद्रदीक्षितविरचितो रामचापस्तवः संपूर्णः ।



श्रीरामभद्रदीक्षितविरचितो
रामबाणस्तवः।

मारीचोपज्ञवेगं बलविजयिसुतप्रेक्षितामोघभावं
पारावारावरोधव्रजविदितमहादुःसहार्चिःप्रभावम् ।
लीलालोलूयमानत्रिदशरिपुशिरोधोरणीदृष्टतैक्ष्ण्यं
भक्तत्राणप्रवीणं शरणमशरणो रामबाणं प्रणौमि ॥ १ ॥
पौलस्त्ये निस्तुलौजस्तुलितहरगिरौ बाधमाने त्रिलोकी-
मग्नौ भग्नप्रभावे द्रवति च पवने क्वापि तान्ते कृतान्ते ।
वित्रस्ते वज्रहस्ते कृतमखिलजगद्रक्षणं येन सोऽयं
त्रण्याच्चण्डीशकाण्डासनभिदभिमतो मार्गणो दुर्गतिं नः ॥ २ ॥
निर्मग्नस्ताटकोरस्त्रुटनविगलितासृक्प्रवाहे सुबाहो-
वक्षोमध्यं प्रविष्टो दलितखरवसापङ्कदिग्धोज्ज्वलाङ्गः ।