पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३२

पुटमेतत् सुपुष्टितम्
२४
काव्यमाला ।


सद्यःसंघट्टरंहस्त्रुटितखरचमूचक्रचञ्चत्करीन्द्र-
स्कन्धस्रुद्विस्रगन्धक्षतजतटवतीनद्धडिण्डीरबुद्धिम् ।
कुर्वन्पश्यज्जनस्य व्यपदलितसितच्छत्रमूर्च्छद्रुचीभिः
पृथ्वीपुत्रीशपत्री विपदमनुपदं हन्तु निर्विण्णबन्धुः ॥ ३६ ॥
कृत्तच्छत्रप्रभग्नध्वजमुपदलितस्यन्दनं मारिताश्चं
निर्भिण्णस्कन्धगन्धद्विरदमवयवच्छेदनिष्पन्दयोधम् ।
चिक्रीड क्रूरमेव प्रखरखरचमूचक्रमाक्रम्य यः प्रा-
ङ्मद्रोगानेष विद्रावयतु भगवतो रामभद्रस्य वाणः ॥ ३७ ॥
भग्नासिच्छिन्नशक्तित्रुटितपरिघनिर्भिण्णकोदण्डलून-
प्रासोत्कृत्तत्रिशूलप्रभृतिभिरवनीमायुधैराशराणाम् ।
द्यामप्युद्यत्कबन्धनजगलविवरोद्गच्छदास्रच्छटाभिः
संरुन्धन्नः सिमिन्धां खरसमरविधौ संपदे रामबाणः ॥ ३८ ॥
क्वपि च्छिन्नैः शिरोभिः क्वचिदपि दलितैर्दोर्भिरेकत्र कृत्तैः
पादैरन्यत्र लूनैरवयवशकलैः क्रव्यमात्रानुभाव्यैः ।
आस्तीर्यास्तीर्य भूमिं व्यहृत खरचमूरक्षिणां रक्षसां यो
गुर्वीमुर्वीकुमारीसहचरविशिखः स श्रियं नस्तनोतु ॥ ३९ ॥
भिन्दन्स्वच्छन्दमुद्यन्नखरुचिकुसुमं दूषणाख्यद्रुमस्य
स्त्यायद्रत्नाङ्गुलीयद्युतिकिसलयितं बाहुशाखायुगं यः ।
आरण्यायां धरण्याममृडयत दृढं मण्डलीमण्डजानां
जानाम्येकं शरण्यं विपदि सपदि तं जानकीजानिबाणम्।।४०]
आतङ्कोड्डीनकङ्कस्थगितघनपथं भीतगोमायुधूत-
क्रव्यादानं भयव्याकुलहरिणकुलाक्रान्तपर्यन्तकुञ्जम् ।
गात्रं यो दूषणस्य त्रुटितभुजमवापातयद्वीतयत्नं
त्राता मे सोऽस्तु सीतारमणकरमहामण्डनं काण्डवर्यः ॥ ४१॥

१. शृङ्गपादविहीनोऽयं श्लोकः. शृङ्ग-ए ऐ ओ औ=एङ्; पाद=आकारः. २. अरण्ये भवायामारण्यायाम्. ३. अण्डजानां गृध्राणां मण्डलीममृडयत मृडां मुखितामकरोत्. 'मृड सुखने.' इगुपधात्कः. ततः 'तत्करोति-' इति णिच्. 'णिचश्च' इति लिङस्तङ्.