पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३३

पुटमेतत् सुपुष्टितम्
२५
रामबाणस्तवः

स्थूले माहाकपाले शिरसि निपतिते प्रो ज्झिते च प्रमाथि-
न्याशु स्थूलाक्षनाशे सति दृगपनयादर्दिते चान्यसैन्ये ।
पश्यद्भिः श्येनगामिप्रभृतिषु निधनं व्योम्नि विद्याधराद्यैः
संतुष्टैस्तुष्टुवे यः स रघुपतिशरस्त्रायतामायतौ नः ॥ ४२ ॥
सर्पास्यं द्रागपास्यन्परुषमपि रुषा तर्जयन्दुर्जयस्य
छिन्दन्देहं च वैहंगममसुविगमाभिज्ञयन्यज्ञशत्रुम् ।
जन्यावन्यामथान्यानपि खरपृतनामद्ध्यगानाशु विद्ध्य-
न्कुर्याद्भूमीकुमार्याः कमितुरिषुवर: संपदं सांप्रतं नः ॥ ४३ ॥
संरुष्टक्रोष्टुकृष्टक्षितिपतिततनूभङ्गनिःशङ्ककङ्क-
क्रोधोपावर्तिताधोरणमुखविकलस्कन्धरन्ध्रान्त्रजालम् ।
दृष्ट्वा नासीरमासीद्रणरणरणकस्रस्तशस्त्रत्रिशीर्षे
यत्र क्रीडत्यमित्रच्छिदि स दिशतु शं भूमिपुत्रीशपत्री॥ ४४॥
आतन्वन्नेकतोऽपि प्रवणवनतसंपातमात्रापसर्प-
त्कृत्तत्रैमूर्धमूर्धत्रयपिशिततृषानुद्रवद्रवद्गृध्ररौद्राम् ।
अन्यत्रामर्त्यहस्तोज्झितकुसुमवलद्गन्धलोभान्धभृङ्ग-
श्यामामृष्याश्रमक्ष्मां रघुवृषभशरः शर्म मे निर्मिमीते ॥ ४५ ॥
एकस्तूणीरगर्भे दश धरणिसुतानाथहस्ताभिमर्शे
चापारोपे सहस्रं प्रयुतमुडुपथे न्यर्बुदं कर्बुरेषु ।
दृष्टो यो वेगकृष्टोपहतखररथः सिद्धगन्धर्वयक्षै-
रक्षीणं दीनरक्षी दिशतु स कवितादाक्ष्यमैक्ष्वाकबाणः ॥ ४६॥
हेमाकल्पाभिरामां कुपितखरकरप्रेरितां प्रावृताशां
वीरुन्नद्धावनीरुत्समुदयमुदयद्विस्मयं भस्मयन्तीम् ।