पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३९

पुटमेतत् सुपुष्टितम्
३१
रामबाणस्तवः

कोदण्डादुज्जिहानो नमदमरवधूसंघसंगीतकीर्तिः
प्रीणन्गीर्वाणलोकं यमिकुलसहितं तेजसा जृम्भितेन ।
रामस्यामित्रवर्गे मथितुमखिलमाबालमुत्साहपर्या-
णद्धोऽस्माकं शुभानि स्तबकयतु शरो वेगनिर्धूतमेघः ॥ ७९ ॥
निर्गच्छद्वैरिवर्गच्छलजलदकुलोन्मुक्तनाराचधारा-
विच्छेदाभिज्ञकङ्कच्छदजवपवनप्रेङ्खितक्रूरपुङ्खः ।
बाणो रामस्य शाणोपलनिशितशिखाधालधल्यावदात-
ह्रादिन्याख्यातशातक्रतवदुरितदुर्भिक्षयोगः पुनातु ॥ ८० ॥
मौर्वीटंकारखर्वीकृतयुगविगमोद्भूतजीमूतशब्दै-
श्चापैरुद्भ्रान्तचामीकरमयशिखरैर्मुञ्चतोऽस्त्रप्रपञ्चम् ।
तूणैरक्षीणबाणैरविरहितवहान्सङ्घशो वीररामा-
न्संग्रामे दर्शयन्तं तमरिपरिषदे नौमि रामस्य बाणम् ॥ ८१ ॥
व्याकीर्णस्वर्णपट्टद्युतिविशददिशं वैरिधैर्यप्रणाडी-
लुण्टाकध्वानघण्टाघटितसदटनिं मण्डलीकृत्य चापम् ।
सङ्ग्रामे रामचन्द्रे सरति भुवि दिवि च्छिन्नभिन्नापविद्ध-
क्रव्यादव्याहताम्भोवहनिवहमहं भावये बाणराजम् ।। ८२ ॥
आराद्धुं युद्धभूमिं निशितनिजशिखाकृत्तमत्तेभकुम्भ-
प्रश्च्योतद्रक्तनिश्चप्रचघुसृणरसालेपदत्तावलेपाम् ।
सोत्कण्ठः पुण्डरीकस्रजमसृजदरं खण्डितारिप्रकाण्ड-
श्वेतच्छत्रच्छलाद्यो हृदि सपदि स मे रामबाणोऽस्तु भूत्यै॥८३॥
साटोपाघातगाढत्रुटितपटुरटत्कङ्कटोद्घाटिताङ्ग-
क्रव्यादोरःकवाटभ्रमणलगदसृक्पङ्कभृत्कङ्कपत्रः ।
आकर्षन्नेकमाकस्मिकमिव तटितः खण्डमुच्चण्डवेगः
क्रीडन्नीडानपीडाव्यपनुदपनुदेदापदं रामबाणः ॥ ८४ ॥