पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४१

पुटमेतत् सुपुष्टितम्
३३
रामबाणस्तवः

निर्धातक्रूरमुष्टिप्रहृतबृहदुरस्तारठात्कारघोरे
युद्धे निर्दग्धलङ्कं रघुपतिविशिखं नौमि रक्षःकपीनाम् ॥ ८९ ।।
तं वन्दे रामबाणं रजनिचरचमूः खां पुरीं यत्प्रभाभिः
सालंकारामवाटीकत मदविधुरा बन्धुरागा विनेत्रा ।
वर्षित्रा येन चाथ ज्वलनमजनि न प्रापिता दौरवस्थ्यं
सा लङ्कारामवाटी कतमदविधुराबन्धुरागा विनेत्रा ॥ ९० ॥
संस्पर्धारब्धयुद्धाभिमुखदशमुखक्रूरपादप्रचार-
न्यञ्चद्भूकुञ्चिताङ्गद्विरसनवरसंप्रार्थितस्वप्रवृत्तिः ।
चापारोपाय कुप्यन्निव दिशि ददृशे यो विलम्बासहत्वा-
ज्ज्वालाजिह्वालवक्त्रः स दहतु महतीमापदं रामबाणः ॥ ९१॥
कल्पान्तोद्भूतवातभ्रमितजलधरोद्धोषगम्भीरगर्ज-
द्रक्षोनाथाट्टहासश्रवणसरभसोत्पुष्यदान्ध्ये फणीन्द्रे ।
येनार्चिर्वृन्दसंदर्शितविविधजगच्चक्षुषा दिक्षु साक्षा-
दक्षान्त्येवोदलासि क्षिपतु स विपदं क्षिप्रमैक्ष्वाकबाणः ॥ ९२ ॥
शार्दूलक्रोष्टुकोलश्वखरमकरहर्यर्क्षकाकोलकङ्क-
श्येनास्यानाशरेशभ्रमदलघुधनुश्चक्रमुक्तान्पृषत्कान् ।

१. सालंकाराम् , अवाटीकत, मदविधुरा, बन्धुरागा, विनेत्रा, . इति प्रथमार्धे; सा, लङ्कारामवाटी, कतमत् , अविधुराबन्धुरागा, विनेत्रा, इति द्वितीयार्धे प- दच्छेदः. यत्प्रभाभिः यस्य बाणस्य तेजसा हेतुना विनेत्रा विगतनयना अत एव मदविधुरा युद्धगर्वरहिता बन्धुषु रागो यस्याः सा बन्धुरागा। बन्धूनेवाभिलषन्ती न तु युद्धे शरीरत्यागमिति भावः । रजनिचरचमूः सालंकारां अलंकारैः रम्भास्तम्भतोरण- मालिकादिभिः सहिताम् । रामबाणपतनात्पूर्वमिति भावः । पुरीं अवाटीकत । युद्धभूमिं परित्यज्य प्राप्तवतीत्यर्थः । 'टीकृ गतौ' । अवपूर्वात्ततो लङ् । आत्मनेपदम् । अथ तदन- न्तरम् । ज्वलनं वर्षित्रा । वृषेस्त्रन्नन्तादतस्तृतीया । विनेत्रा शिक्षकेण । दुर्जनानामिति शेषः । येन बाणेन सा प्रसिद्धा लङ्काया आरामवाटी उपवनवाटी । वीनां पक्षिणां धूः विधुरा । 'ऋक्पू:-' इति समासान्तः । विधुरया पक्षिभरेण बन्धुरा मनोज्ञा अगाः वृक्षा: सा न भवतीति अविधुराबन्धुरागा सती । दग्धत्वादिति भावः। कतमत् कीदृशम् । डतम- च्प्रत्ययान्तः किंशब्दः । दुःखरूपा अवस्था यस्याः सा दुरवस्था, तस्या भावः दारैवस्थ्यम् । तच्च बहुविधं पक्षिदाहवृक्षदाहलतादाहादिदुःखानां बहुत्वात् तं रामबाणं वन्दे.