पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
काव्यमाला।

हर्षेणाशेषगीतं त्रिजगति नितरां दृश्यते यस्य तेजः
सः श्रेयस्ताटकारेः करतलकलितः सायकः साधयेन्नः ॥१०४॥
भास्वद्भानुप्रभावाभिभवपटुरुरुस्वप्रभाभिर्विधून्व-
न्सौवर्गोपप्लवौघोद्भवमृजु सुमनोभावसुप्रापरूपः ।
पापव्यालोपमायुर्विभवमपि मधुस्वादुवाग्गुम्फमावि-
ष्कुर्वन्प्रह्वेषु बाणो भवतु शुभवहोऽसौ सुबाहुद्विषो वः ॥१०५॥
स्वच्छन्दं यश्चकार प्रबलनिशिचरव्यूहमारी चलाव-
स्थानां लङ्कासमृद्धिं प्रतिभटपरिभाव्यूहमारीचलावः ।
बाणं तं प्राप्तसीतारमणकरसरोजं भजे त्रासितेन
ख्यातस्तोत्रे दशास्येऽपि च कृतकदनं जम्भजेत्रा सितेन ॥१०६॥
साभावज्ञानसत्रापहतिनिरतभिल्लोकरक्षाविलासा
सालाविक्षारकल्लोलजलधितनुमग्रामसक्ता सदासा ।


१. सर्वौष्ट्यवर्णश्लोकः. २. निशिचराणां व्यूहं समूहं मारयितुं शीलमस्या- स्तीति निशिचरव्यूहमारी । चलं अवस्थानं यस्यास्तां लङ्कासमृद्धिम् । प्रतिभटान् शत्रून् परिभवितुं शीलमस्यास्तीति प्रतिभटपरिभावी । तादृश ऊहो बुद्धि विशेषो यस्य सः । तथोक्तं मारीच लुनातीति प्रतिभटपरिभाव्यूहमारीचलावः । प्राप्तं सी- तारमणकरसरोजं येन सः तथोक्तम् । भजे नमर कुर्वे । त्रासितेन तर्जितेन । जम्भजेत्रा इन्द्रेण । सितेन बद्धेन । ‘षिञ् बन्धने' क्तः । इति पदच्छेदः पदार्थश्चावगन्तव्यः. ३. सभासंबन्धिनः साभाः सभायोग्याः । महान्त इत्यर्थः । तेपामवज्ञानं अवमानम् । सत्रस्य यज्ञस्य अपहतिः विधातिः। साभावज्ञाने सत्रापहतौ च निरतास्तत्परा मारीचादयः तान्भिनत्तीति साभावज्ञानसत्रापहतिनिरतभित् । लोकरक्षैव विलासो यस्याः सा त- थोक्ता । 'इषुर्द्वयोः' इत्यमरोक्तेरिपुविशेषणस्यापि स्त्रीलिङ्गता । साला: सप्तसालाः, अविः शैलः, क्षारकल्लोलजलधिः लवणोर्मिसमुद्रः, तेषां तनुषु मज्जतीति सालाविक्षारकल्लोलज- लधितनुमक् । रामसक्ता रामसंबन्धिनीत्यर्थः । सदा आसो गतिर्यस्याः सा सदासा। अस- तेर्गत्यर्थादास इति भावे घञ् । पत्रांशे वायुरूपेत्यर्थः । सादो विशरणम् । नाश इत्यर्थः । तेनासक्ता असंबद्धानित्या। आकाशरूपेत्यर्थः । समुज्वलमग्रं यस्याः सा समग्रा । अग्नि- सूर्यात्मकाग्रत्वादिति भावः । 'यस्य पत्रेषु पवनः फले पावकभास्करौ । शरीरमाकाश- मयं गौरवे मेरुमन्दरौ ॥' इति रामायणे । तामसन्नानिरासा । तामसः तमःप्रधानत्वा- द्रावण उच्यते। तं हन्तीति तामसन्नी । 'अमनुष्यकर्तृके च' इति हन्तेष्टः । न विद्यते रामस्य