पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५९

पुटमेतत् सुपुष्टितम्
५१
शृङ्गारशतकम् ।

चन्द्रानना वदनचन्द्रघनप्रसादै-
र्दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९२ ॥
चन्द्राननावदनचन्द्रविलोकनेन
चन्द्रोऽयमेव जगतीति हृदि प्रवृत्तः ।
लीलाचलन्नयनखञ्जनदर्शनेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९३ ॥
बालाविलोचनमृगद्वयदर्शनेन
जातोऽपि कोमलमृगद्वयपक्षपाती।
कन्दर्पकेलिचतुरेण निरीक्षणेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९४ ॥
मन्दस्मितामृतमहारसपूरपूर्णे
वामाघरे नरहरेरुदितो वितर्कः ।
अस्याः सरोरुहदृशः किमु भालवर्ती
सिन्दूरपूरतिलकः प्रतिबिम्बितोऽयम् ॥ ९५ ॥
शोणेऽधरे नरहरेः कवितारसेन
स्यात्पद्मराग इति संवलितो वितर्कः ।
पीते तदैव किल तत्र सुधारसाले
दूरीकृतो मधुरतागुणसेवनेन ॥ ९६ ॥
वक्षोभवे नरहरेर्मनसो वितर्को
जातोऽपि हेमकलशद्वयपक्षपाती।
दूरीकृतो झटिति लोलविलोचनाया-
श्चन्द्रार्धसुन्दरनखक्षतलक्षणेन ॥ ९७ ॥
नास्त्येव नूनमुदरं किमु किंचिदस्ती-
त्येवंविधस्तरलितोभयपक्षपातः ।
रोमावलीं कलयता करपल्लवेन
दूरीकृतो नरहरेरुदितो वितर्कः ॥९८ ॥