पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६०

पुटमेतत् सुपुष्टितम्
५२
काव्यमाला ।

स्वैरं निपीय रुचिरां तनुरोमराजीं
चित्ते भृशं नरहरेरुदितो वितर्कः
अत्यन्तभास्वरतया वयुषोऽङ्गनाया
वेणी विनीलविषयः प्रतिबिम्बितोऽयम् ॥ ९९ ॥
किं वा मृदूनि कुसुमानि किमु प्रिया स्या-
देवंविधः कुसुमतल्पगतस्य यूनः ।
उत्तुङ्गपीनकठिनस्तनमर्दनेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १०० ॥
हस्तावलोकनविधौ स्फुरितोऽपि दैवा-
दुत्फुल्लकोकनदयुग्मकृतावधानः ।
रत्नाङ्गुलीयनखराजिनिरीक्षणेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १०१ ॥
जङ्घाद्वये जघनसुन्दरदर्शनाया
रम्भाद्वयं किमु भवेदिति संप्रवृत्तः ।
स्पर्शन कामसुखदेन विनोदभाजा
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १०२ ॥
संचारचारुचरणद्वयसंनिधाने
हंसद्वयं किमु भवेदिति संप्रवृत्तः ।
हंसवनप्रजयिहंसकसि(शि)ञ्जितेन
दूरीकृतो नरहरेरुदितो वितर्कः ॥ १०३ ॥
ताटङ्करत्नरचनामवलोक्य रम्या-
मेवंविधो नरहरेरुदितो वितर्कः ।
कन्दर्पशास्त्रपठितानि वसन्ति मन्ये
रत्नानि विभ्रमविलासरसात्मकानि ॥ १०४ ।।
लोका वदन्ति सखि रत्नललन्तिकेयं
तुङ्गस्तनान्तरगता हृदि राजतीति ।