पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६१

पुटमेतत् सुपुष्टितम्
५३
शृङ्गारशतकम् ।

ताम्बूलचर्वणरसप्रतिबिम्बरूपं
तर्काधिक नरहरेर्मतमन्यदेव ॥ १०५ ॥
कि मानवीयमथवा स्मरदेवतेय-
मेवंविधो मनसि ते लसितो वितर्कः ।
तत्खण्डनं नरहरे न तवास्ति युक्तं
सत्यं हि सा सुवदना स्मरदेवतैव ॥ १०६ ॥
शाटी लसत्कुसुमचित्रवतीं वसाना-
मालोकितुर्नरहरेरुदितो वितर्कः ।
रङ्गस्थलीं गमयितुं कुसुमायुधेन
क्षिप्तैर्विचित्रकुसुमैरिव संवृताङ्गी ॥ १०७ ॥
अध्यापितः करतले कलितः किलायं
कीरस्त्वया कुवलयाक्षि कुतूहलेन ।
अध्यापनेन जनिता स्वरमाधुरीदं
तत्वं परं नरहरिः सखि वेद नान्यः ॥ १०८ ॥
पाणौ स्थितो नरहरे मुकुरोऽङ्गनायाः
कर्तुं छलेन वदनं ननु सद्वितीयम् ।
तेनैव हन्त मुखकान्तिपराजितेन
विस्पष्टमेव कथितं मुखमद्वितीयम् ॥ १०९ ॥
भाले विधाय तिलकं तव कुङ्कुमेन
कण्ठे निधाय दयिते नवरत्नम(मालाम्) ।
नीराजनां नरहरिर्वितनोति नेत्रै-
रद्यापि किं न कुरुषे सुमुखि प्रसादम् ॥ ११० ॥
कण्ठे लगन्तमधरामृतपानलोलं
लीलाकुलं नरहरि प्रति संभ्रमेण ।
दूरे भवेति वचनं यदुवाच वामा
मन्ये तदेव निकटे भवलक्ष्यतुल्यम् ॥ १११ ॥