पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६९

पुटमेतत् सुपुष्टितम्
३ पद्धतिः]
६१
भिक्षाटनकाव्यम् ।

कस्याश्चिदेवमभिधाय मुखेन्दुबिम्बं
रक्षामयं तिलकमाप्तजनश्चकार ॥ २२ ॥
कस्याश्चन प्रचुरकेशभरे जलाद्रे
जाड्यास्पदं तरुणवर्गमनो बभूव ।
कालेयधूपजुषु(षि) धूपितमात्तपुष्पे
पुष्पाविद्धमथमङ्घ्री(?)निबद्धमेव ॥ २३ ॥

इत्युत्प्रेक्षाबलभकृती भिक्षाटनकाव्ये मण्डणपद्धतिद्वितीया ।


तृतीया पद्धतिः ।

नारीषु निर्गमनमण्डनतत्परासु
सख्योपचारसगुणो(णा)र्थमनोहराणि ।
ईशावलोकनमुहूर्तनिरोधभीत्या
प्रारब्धमण्डननिषेधफलान्यवोचन् ॥ १ ॥
अर्काभिमुख्यसलिलस्थितिसाधनानि
रक्ताम्बुजस्य फलितान्यधुना तपांसः(सि)।
यद्भीरु तस्य परिभूतिकरं पदं ते
लाक्षारसान्तरितरागमिदं करोपि ॥ २ ॥
गन्तुं परैरविदितं यदि शंभुपार्श्वे
वाञ्छा किमालि रणता नवनूपुरेण ।
कर्तु हरस्य चरितान्यमिलापवद्भिः
प्रारम्भ एव पिशुनः परिवर्जनीयः ॥ ३॥
मा विश्वसः सखि कलां मणिमेखलां तां
क्षौमस्य यद्यभिमतं परिरक्षणं ते ।
यावं हितापि दृढबन्धमिहाप्रयत्ना-
ज्जायेत बन्धविमुखी पुरतः पुरारेः ॥ ४ ॥
यानि व्यथन्ति विरहे विरलं न याति (न्ति)
योगे हरेण वलयैः सखि किं फलं ते ।