पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७६

पुटमेतत् सुपुष्टितम्
६८
काव्यमाला ।

पूर्वं द्विरेफपरिभूतिभयाद्भवत्या
यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् ।
व्यर्थं तदद्य पुनरप्यलकेषु भृङ्गाः
पुञ्जीभवन्ति बकुलभ्रमतः पतन्ति ॥ २७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य निर्गमनपद्धतिश्चतुर्थी ।


पञ्चमी पद्धतिः ।

यत्रागतिः पशुपतेनगरप्रवेशे
तत्रैव धावनपरस्य वधूजनस्य ।
संजल्पितानि पथि यानि मिथो बभूवु-
रेतानि सन्तु रसिकश्रुतिपारणाय ॥ १ ॥
पादाम्बुजं सखि तवेदमियं धरित्री
सद्यः परागपरिधूसरितं विधाय ।
पद्मेन शोच्यजननेन समीकरोति
सत्यं भवत्यसमसाम्यकरस्त्रिसङ्गः ॥२॥
मामप्यपेतकरुणे परिपाल्य याहि
शंभुं विलोकयितुमुत्सुकतामतीव ।
1पत्न्यां विलासगमनं न परत्वयातं
हंस्या गती विधति पक्षतिसाधिता च ॥ ३ ॥
हारो न(न्व)यं कुचभरे निहितो भवत्या
प्रस्थानसंचरितया तदतीव भद्रम् ।
आलिङ्गनं यदि करिष्यसि भूतभर्तु-
र्माद्र(भूत्)त्वदीयदृढमौक्तिकमर्मतोदः ॥ ४ ॥
मञ्जीरमालि चरणाश्रितमेतदेता-
वाहूय मञ्जुनिनदैर्गमने त्वदीये ।