पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७८

पुटमेतत् सुपुष्टितम्
७०
काव्यमाला ।

आत्मोपयुक्तगरलौषधिपानकामः
पास्यत्यवस्य(श्य)मधरामृतमिन्दुमौलिः ॥ ११ ॥
प्रागेव 1बन्धरुचिलोचनकान्तिचौर्ये
नीलोत्पलं यदकरोः सखि नाद्य 2कन्ये(?) ।
बुद्धिभ्रमादिदमभूदिति मा विषादः
कस्तस्करं निजगृहाधिपतिं करोति ॥ १२ ॥
इन्दुर्मुखं कुचभरो गुरुरेव दत्तः
शुक्लोऽधरश्च तव लोहित एव जातः ।
एवं गृहात्मवपुषः सखि तत्र चित्रं
यत्पादयोरपि शनैश्चरता तयोस्ते ॥ १३ ॥
मा भूत्तवालि गिरिशस्य विलोकनाय
यान्त्या न मण्डनमकारि मयेति लज्जा ।
धत्ते विलासिजनलोचनपेयमेत-
न्निर्मक्षिकं मधु निराभरणं शरीरम् ॥ १४ ॥
मात्रैव ते गतिनिवारणमग्रतोऽभू-
त्सद्यस्तदा परिहृतं सखि बाष्पपूरैः ।
शक्ता न गन्तुमधुनासि नितम्बभारा-
द्दोषो निसर्गजनितः परिहारहीनः ॥ १५ ॥
हस्तस्थितां तु सखि ते नवपुष्पमालां
मा विस्तृता शिरसि कर्तुमिति स्म खेदः ।
दृष्टे शिवे सपदि तस्य कुतूहलेन
कर्णे निधातुमुचिता वरणोत्सवाय ॥ १६ ॥
त्याज्या सखि दृ(द्रु)तगतिः कुचभारतोऽयं
संशय्यतां तव यया समुपेति मध्यः ।
अस्मिञ्जगत्यसुलभः सगुणादिरूढः
कार्ये निजे भवति यः परधारणाय ॥ १७ ॥