पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७९

पुटमेतत् सुपुष्टितम्
६ पद्धतिः]
७१
भिक्षाटनकाव्यम् ।

नैष्पल्यशंकरवशाजनभिर्हितोद्य
यन्निर्मितौ शतधृतेरतिमात्रयत्नः ॥
अस्य त्वदीक्षणयुगस्य विशालता सा
साफल्यमेष्यति शिवस्य विलोकनेन ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये निर्गमनपद्धतिः पञ्चमी ।


षष्ठी पद्धतिः ।

नेत्रैर्मषीमलिनितैर्ददृशुस्तमेव
रथ्यागतं शिवमयत्नत एव नार्यः ।
ज्ञानात्मकेन विमलेन विलोकनेन
यद्वीक्षणाय हृदये यतयो यतन्ते ॥ १ ॥
गौरीकुचक्षपितभस्मनि कापि दृष्टिं
चिक्षेप वक्षसि विभोरभिलाषगर्भाम् ।
तृष्णाग्रह(?)सुलभदुर्लभयोर्विवेके
सृष्टास्ति सोऽप्ययमतीव च कापि मेने ॥ २ ॥
स्पन्दैरमन्दजनितैर्मुहुरेव यस्य
संसूचितं झडिति शर्म भविष्यतीति ।
अन्यं निमील्य निबिडं मुदितैव काचि-
द्वामेन तेन नयनेन शिवं ददर्श ॥ ३ ॥
न्यस्ता लिपिः शिरसि येन शरीरभाजां
तस्याप्यजस्य हरपाणिभृते कपाले ।
दृष्ट्वाक्षराणि निपुणा द्रुहिणस्य कश्चि-
देतान्यनेन लिखितानि किलेति मेने ॥ ४ ॥
वक्षःस्थलेऽतिमहति सरशासनस्य
स्वस्मिन्पयोधरयुगे च विजृम्भमाणे ।