पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८३

पुटमेतत् सुपुष्टितम्
७ पद्धतिः]
७५
भिक्षाटनकाव्यम् ।

जङ्घायुगं सखि विलोकय भूतभर्तुः
संवाहनेषु गिरिजाकरपल्लवेन ।
संजातकण्टकतया प्रतिपद्यतेऽयं
नित्यं पदाम्बुरुहकोमलनालकक्ष्याम् ॥ ४ ॥
कक्षोरगेन्द्रमिह पश्य विभोस्तमेन-
मावेष्टनेन विपुले कलितं नितम्बे ।
येनायमद्य लभते पुरसुन्दरीणां
चित्ताम्बुराशिमथने सखि मन्दरत्वम् ॥ ५ ॥
नाथस्य सुन्दरि विलोकय नाभिगर्त-
मस्योत्तमाङ्गकलिता विबुधस्रवन्ती ।
आवर्तमाशु विरचय्य पुनःपुनस्तं
यत्साम्यदुर्लभतया शिथिलीकरोति ॥ ६ ।।
अङ्गीकृतं यदमुना वसनत्वपक्ष
कक्षोरगेन्द्रफणरत्नमरीचिशोणम् ।
मातङ्गचर्म चिरकालनिकृत्तमेत-
दद्यापि पश्य रुधिराक्तमिवावभाति ।। ७ ।।
नैसर्गिकालमणि(?)शालिनि पश्य भिक्षो-
हैरण्यगर्भमयि पाणितले कपालम् ।
आविष्करोत्यरुणतामरसे विनिद्रे
निद्रावशस्तिमितहंसगतामभिख्याम् ॥ ८॥
आलेपनं यदिदमस्य भुजान्तराले
तद्भस्मदिग्धवपुषो मदनस्य मन्ये ।
नो चेत्कथं कथय वीक्षितमात्र एव
संमोहयेत्सखि मनः सकलाङ्गनानाम् ॥९॥
गौर्या मनोहरभुजाफणयोग्य एव
कण्ठे कथं सखि हरस्य भुजङ्गहारः ।