पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८९

पुटमेतत् सुपुष्टितम्
९ पद्धतिः]
८१
भिक्षाटनकाव्यम् ।

सख्यं वरेण्यघटितं द्रविणेश्वरेण
कार्श्यं तथापि किमिदं तव नापयातम् ।
किंचैष सुन्दरि चिराय पयोधरेण
स्फीतेन ते परिचितः कृश एव मध्यः ॥ २॥
सर्वेषु जन्तुषु समं कथमिन्दुमौले
त्वामेव हन्तु विषमेक्षणमाह लोकः ।
मध्यः कृशोऽपि वहति स्तनयोर्भरं ते
तस्मिन्वहत्यपि च मध्यमवाद एव ।। ३ ॥
दोषं विनैव भवतस्तरुणेन्दुमौले
कस्मात्पुरा विनिहतः करियूथनाथः ।
त्वत्पीवरस्तननिराकृतकुम्भकान्ति-
र्जीवन्मृतो मयि वराङ्गि मृषापवादः ॥ ४ ॥
आद्यन्तशून्यमिति वेदविदो विदन्ति
त्वामिन्दुशेखर जगत्युदयान्तभाजि ।
तद्वादमात्रमयमद्य हि दृष्ट एव
सर्वेश्चकोरनयने तव मध्यलोपः ॥ ५ ॥
उत्पाट्य पावकमयं नयनं ललाटे
प्लुष्टस्त्वया किमिति शंकर पुष्पकेतुः ।
दृष्टयैव ते यदयमाप पुनः प्रसूतिं
तं(तच्) चण्डि हासपदमस्म्यहमेवमेव ॥ ६ ॥
मुक्तामय(:) स्फुटमि(म)यं रशनागुणो मे
धिग्धिग्भयंकरभुजङ्गमकल्पितं ते
मुक्तामयत्वमिति चित्त्वमु तस्य बाले
यः संसजेत्तव नितम्बमजस्रमेव ।। ७ ।।