पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९

पुटमेतत् सुपुष्टितम्

काव्यमाला ।


श्रीरामभद्रदीक्षितविरचितो
रामचापस्तवः ।



यन्मूले रघुनन्दनस्य जगतां त्रातेति कीर्त्यङ्कुरो
देवी चार्चति जानकी सविनयं यद्गन्धपुष्पाक्षतैः ।
यत्कोट्या कृतलाञ्छनश्च जलधौ सेतुर्जगत्पावनो
भद्रायास्तु जगत्त्रयस्तुतिपदं तद्राघवीयं धनुः ॥ १ ॥
यः शत्रुंजयकुञ्जरेश्वरशिरःसंघट्टनाकर्कशे
वैदेहीकुचकुम्भपत्रमकरीविन्यासवैज्ञानिके ।
चञ्चत्पञ्चवटीकुटीरजटिलव्यूहाय दत्ताभये
पाणौ कौणपवैरिणो विजयते चापाय तस्मै नमः ॥ २ ॥
दारुण्यप्यवलम्बिते कृतवतः साकेतराज्यश्रियं
केलिन्यासविधूतगौतमवधूदुःशीलमूलैनसः ।
पादस्याक्रमणेन पूतमसकृत्कोटौ गुणारोपणे
चापं चन्द्रवतंसचापमथितुर्देवस्य सेवामहे ॥ ३ ॥
मद्रक्षाकथनेच्छयेव गतया देवस्य कर्णान्तिकं
मौर्व्या मार्गणपक्षपातघटनापारीणया संगतम् ।
कोटौ चामरहेमभूषणमिषात्कीर्तिप्रतापाङ्कुरौ
बिभ्राणं करवाणि रावणरिपोश्चापं शरण्यं प्रभोः ॥ ४ ॥
लब्धोन्मेषविशेषभीषणशिखिज्वालाजटालेक्षण-
श्लिष्टाभ्यन्तररुष्टरुद्रनिटिलस्निग्धं विशुध्द्यै गिराम् ।
अन्तः संततकाञ्चनाञ्चितशरश्रीमञ्जरीपिञ्जरी-
भूतं भातु पुरः कबन्धमथितुर्ज्याबन्धवामं धनुः ॥ ५ ॥