पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९६

पुटमेतत् सुपुष्टितम्
८८
काव्यमाला ।

किंचिन्मुहूर्त्तमिह तिष्ठ विभो मदीयं
गेहं प्रविश्य पुनरेत्य ददामि भिक्षाम् ।
अभ्यर्थिनामभिमतस्य चिरेण लाभा-
दभ्यर्हितः सपदि नास्ति प(य)दस्य लाभः ॥ ७ ॥
तां तां समृद्धिममराहवतो 1भवन्ते
भिक्षाटनव्यसनमीश मि(कि)मर्थमेतत् ।
नीचैः कदाचनमस्थिति(?)रन्यदोच्चै-
रप्येकदा भवति देहभृतामवस्था ॥ ८ ॥
यत्केवलं तव कराग्रकरोटिपात्र-
मद्याप्यलाभि भवता न किमत्र भैक्षम् ।
उत्साहसंततिकृतामपि देहभाजां
लाभो न यत्नमनुधावति भाग्यहीनम् ॥ ९ ॥
मागाः परत्र भवने भव पात्रमद्य
भिक्षोदनैरहमिदं तव पूरयामि ।
वाचां मुधा कुसुमिता विदधाति लोकः
किंचित्तुला फलति नार्थिषु दीर्घतोऽपि ॥ १० ॥
संपन्नमन्नमखिलेश्वरभैक्षमात्रं
तुभ्यं ददातुमियदेतदपत्रपेऽहम् ।
निर्णीतमेतदखिलार्थिजनेन दाने
देयस्य काललघुता लघुतां क्षिणोति ॥ ११ ॥
भैक्षार्थिना प्रतिगृहं चरता त्वयैव
न स्थीयते किमिति हन्त मुहूर्तमात्रम् ।
एकत्र पुष्कलमलब्धवतां स्वकाम्यं
कापि स्थितिर्मधुलिहामिव दुर्लभैव ॥ १२ ॥
दास्यामि भैक्ष्यमखिलेश दिने परस्मिं-
स्तुभ्यं हतेन विधिना गलितोऽन्नकालः ।