पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९८

पुटमेतत् सुपुष्टितम्
९०
काव्यमाला ।

का(क्ला)न्ता स्विदम्य गलकालगरोप्मणेति
काचिच्छिवस्य पथि संदिदिहे सखीभिः ॥ २ ॥
भूषोरगानविगणय्य विभोरुपान्ते
कापि स्थितैव निजबन्धुनिवारितापि ।
किं धाष्टर्यमेतदुत सौढ्यमहो स्विदस्या
भक्तिर्वरा किमु मनोभववैभवं वा ॥ ३ ॥
आलोक्य दृष्टिररुणा प्रथमास्त्रगाक्ष्या(?)
गौरीकुचाघणकिणोरसमिन्दुमौलिम् ।
पश्चादुदश्रुसलिलाभवदग्नितप्ता
मारस्य दत्तनिशिताश्रुजलेव शक्तिः ॥ ४ ॥
अस्त्रं विमुच्य निखिलं प्रथमं प्रयोगे
भूयोऽपि वेद्भुमबलां विहितोद्यमस्य ।
अल्पायुधस्य वपुरेव तदीयमेकं
लक्ष्यं च हस्तशरधिश्च तदा बभूव ॥ ६ ॥
पादेन किं फणिगणे चकितं नितम्बे
शंभोः करे विवशमग्रसरे सपात्रे ।
आधूसरं भसितलेपिनि बाहुमध्ये.
स्नातुं शिरः सरिति चित्तमधीरदृष्टेः ॥ ६ ॥
काचित्पृथुस्तनभरे गलितोत्तरीये
व्यत्यासभङ्गिनि हितेन भुजद्वयेन ।
आलिङ्गनं हृदयदेशजुषः शिवस्य
कर्तुं समीप्सितवतीव चिरं चकासे (शे) ।। ७ ।।
पुष्पं विकीर्य गिरिशाय पुरैव पश्चा-
त्सर्वो जनः श्रयति बन्धविमुक्तिमन्यः ।
वेणीभरो मृगदृशः प्रथमं विमुक्तो
बन्धात्पुनः पुरजिते कुसुमान्मुमोच ॥ ८ ॥