लावण्यं पुनरुत्तमं किमपरं किं तु स्फुरत्कण्टक-
व्यग्रं नालमिदं सरोरुह परं तेनातिदूयामहे ॥२॥
यस्मिन्फितमहो निपीतमधुना दिव्यं मधु स्वेच्छया.
नीतान्येव दिनानि केलिभिरहो संयापिता शर्वरी ।
तसिञ्शीतनिपातजातविकले मल्लीकुले किं वृथाः
हा हा हन्त कृशो मधुव्रत दृशोरेवंविधोऽनुग्रहः ॥ ३ ॥
सर्वाङ्गं व्रणितं मुहुर्विलुलितं सूचीदलैर्लोचनं
धूलीमिः कलितो द्विरेफ भवता लब्धो रसः केतके ।
अद्यापि स्फुन्टमेत्र गुञ्जसि पर नो बुद्ध्यसे तत्कथं
त्वां वच्मि प्रसभं ततो विलुठितो भूमौ परं ज्ञास्यसि ॥४॥
व्याघूर्णन्नवकुम्भिकुम्भयुगलं. व्यालम्ब्य गुञ्जस्यलं
दानादानधिया मदोन्मदतनुर्युक्तं किमेतद्वद
नो जानासि दुरन्तदन्तविदलत्प्रोद्दण्डशुण्डाभर-
व्याघातोत्पतदङ्गभङ्गविकलः प्रौढव्यथां भृङ्ग हे ॥ ५ ॥
पेयं पङ्कजकोरके मधु नवं नेयं दिनं निर्भरं
केलीभिर्निभृतं सुखेन सहसा संयापनीया क्षपा ।
किं तु प्रेमपिनद्धमुग्धविदलत्सौरभ्यभव्योदयो
नो हेयो नितरां मधुव्रत सुधासङ्गी लवङ्गीरसः ॥६॥
माध्वीकं परिपीय पङ्कजवने विभ्रष्टबुद्धिः परं
वारंवारमहो विचाररहितो भूयश्चिरं गुञ्जसि
नो जानासि सुगन्धवन्धुरदलां लावण्यलीलाकुलां
स्निग्धान्त करणां मधुव्रत मनाङ्क्ल्लीमतल्लीं धुनः ॥ ७ ॥
प्रोद्दामातुलचण्डघामबहलज्वालाकलापार्कुले
शून्ये संप्रति निर्जले पुनरहो निर्बीरूदुर्वीतले ।