कि वातः परमस्य पश्य विदलन्माध्वीसमृद्धिस्फुर-
न्मन्दस्यन्दसुगन्धितुन्दिलदलां जाता लवङ्गीलता ॥१४॥
सत्यं भृङ्ग वदामि किं तत इतो गन्तुं विधत्से मनः
केयं निर्भरदीनता क्व मधुरव्याहारतारध्वन्निः
एकं सेवय सौरभं परिमलगोंद्भिन्नमन्दानिलं
यस्मिन्मूलफलप्रसूननिकरे साधारणः सौरभः ॥ १५ ॥
लावण्यं वचनातिगं पुनरहो सौरभ्यमुच्चैस्तरां
शैत्यं शीतलभानुविद्रवकरं किं वापरं पश्य रे ।
उन्मीलन्मकरन्दतुन्दिलदलं कस्मादकस्मादहो
भ्रातर्मुञ्चसि चञ्चरीक चतुर त्वं चम्पकानां वनम् ॥ १६॥
त्वं चेच्चम्पककोरके न कुरुषे प्रेमाणमैतावता
का हानिर्नहि तस्य कृत्यमपि रे किंचित्पुनर्हीयते ।
तेनैवास्य तु वैभवं मधुप हे. यद्भूषयन्ति स्फुटं
केलीमन्दिरदेहली परिसरे कर्णेषु वामभ्रुवः ॥ १७ ॥
स्यादुद्दण्डदुरूहचण्डकिरणज्वालावलीशोषकः
पाटीरोऽयमुदारसुन्दरतनुः सौरभ्यभव्योदयः ।
किं कुर्मः कथमत्र हन्त भविता चित्रं गतिर्मादृशा-
मा मूलं यदसौ भुजंगनिचयैरावेष्टितो वर्तते ॥ १८ ॥
सौरभ्यं वचनातिगं किमपरं दाक्षिण्यमुच्चैस्तरां,
यद्यप्यस्ति नवीनशैत्यसुषमासंपत्तिरन्यादृशी ।
सर्व तत्सुखदं परं तु नितरामेतेन दूयामहे
फूत्काराकुलमोगिभोगनिचयैः श्रीखण्ड यत्क्रीडसि ॥१९॥
एकस्मिन्मलयाचले निवसता क्रूराशयेनामुना
भिल्लेन त्वमिहादृतो यदि न चेत्का हानिरेतावता ।